भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 626, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 626

॥ काशिका ॥ ६ ॥ ४ ॥ ६२५ न्तमनेकाजसंयोगपूर्वं सार्वधातुके विवक्षिते । सार्वधातुकइति किम् । जुहुवतुः । जुहुवुः । असंयोगपूर्वस्येत्येव । आप्नुवन्ति । राध्नुवन्ति ॥ भुवो वुग्लुङ्लिटोः ॥ ८८ ॥ भुवो वुगागमो भवति लुङि लिटि चाजादौ परतः । अभूवन् । अभू- वम् । लिट् । बभूव । बभूवतुः । बभूवुः ॥ ऊदुपधाया गोहः ॥ ८९ ॥ गोहो ऽङ्गस्य उपधाया ऊकारादेशो भवति अजादौ प्रत्यये परतः । निगूहति । निगूहकः । साधुनिगूही । निगूहम् । निगूहन्ति । गूहो वर्त्तते । उप- धाया इति किम् । अन्त्यस्य मा भूत् । गोह इति विभक्तयग्रहणं विषयार्थम् * । यत्रास्यैतद्रूपं तत्रैव यथा स्यादिह मा भूत् । निजुगुहतुः । निजुगुहुः । अयादे- शप्रतिषेधार्थं च के चिदिच्छन्ति । निगूह्य गत इत्युत्वस्यासिद्धत्वाद् ल्यपि लघुपूर्वादित्यादेशः स्यात् । व्याश्रय त्वादेवासिद्धत्वमत्र नास्ति । णावुत्वं श्यन्यत्वं च ल्यप्ययादेश इति । अचीत्येव । निगोढा । निगोढुम् ॥ दोषो णौ ॥ ९० ॥ दोष उपधाया ऊकार आदेशो भवति णौ परतः । दूषयति । दूष- यतः । दूषयन्ति । विभक्तयग्रहणं प्रक्रमाभेदार्थम् । पूर्वेत्र हि गोह इत्युक्तम् † । णाविति किम् । दोषो वर्त्तते ॥ वा चित्तविरागे ॥ ९१ ॥ चित्तविकारार्थे दोष उपधाया वा ऊकारादेशो भवति णौ परतः । चित्तं दूषयति । चित्तं दोषयति । प्रज्ञां दूषयति । प्रज्ञां दोषयति ॥ मितां ह्रस्वः ॥ ९२ ॥ मितो धातवो घटादयो मित इत्येवमादयो ये प्रतिपादितास्तेषामुप- धाया ह्रस्वो भवति णौ परतः । घटयति । व्यथयति । जनयति । रञ्जयति । शमयति । ज्ञपयति । के चिदत्र वेत्यनुवर्त्तयन्ति सा च व्यवस्थितविभाषा, तेन उत्क्रामयति संक्रामयतीत्येवमादि सिद्धं भवति ॥ चिण्णमुलोर्दीर्घो ऽन्यतरस्याम् ॥ ९३ ॥ चिणपरे णमुलिपरे च णौ परतो मितामङ्गानामुपधाया दीर्घो भवति अन्यतरस्याम् । अशमि । अशामि । अतमि । अतामि । शमंशमम् । शामंशा- मम् । तमंतमम् । तामंतामम् । दीर्घग्रहणं किं, न ह्रस्वविकल्प एव विधी-

  • विषयनियमार्थमिति क्व चित्पाठः । † भावीत्यस्यैव संभवादित्यधिकमेकस्मिन् पुस्तके । ४०