भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 637, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 637

उवर्णान्तस्य भस्य गुणो भवति तद्धिते परतः । बाभ्रव्यः । माण्डव्यः । शङ्कव्यं दारु । पिचव्यः कार्पासः । कमण्डल्व्या मृत्तिका । परश्वधमयः । औपगवः । कापटवः । ओरोदिति वक्तव्ये गुणग्रहणं संज्ञापूर्वोको विधिरनित्यो यथा स्यात् तेन स्वायंभुव इति सिद्धं भवति ॥ ढे लोपो ऽकद्रुवाः ॥ १४७ ॥ ढे परत उवर्णान्तस्य भस्याकद्रुवा लोपो भवति । कामण्डलेयः । शैति- वाहेयः । जाम्बेयः । माद्रुवाहेयः । अकद्रुवा इति किम् । काद्रवेयो मन्त्रमपश्यत् ॥ यस्येति च ॥ १४८ ॥ इवर्णान्तस्यावर्णान्तस्य च भस्य ईकारे परे तद्धिते च लोपो भवति । इवर्णान्तस्य ईकारे । दात्ती । प्रात्ती । सखी । सवर्णदीर्घत्वे हि सत्यतिसखे- रागच्छतीत्यत्र एकादेशस्यान्तवत्त्वादसखीति घिसंज्ञायाः प्रतिषेधः स्यात् । इवर्णान्तस्य तद्धिते । दाक्षिः । दैलेयः । वलि । वालेयः । अत्रि । आत्रेयः । अवर्णान्तस्य ईकारे । कुमारी । गौरी । शार्ङ्गरवी । अवर्णान्तस्य तद्धिते । दात्तिः । प्रात्तिः । चौडिः । बालाकिः । सौमित्रिः ॥ यस्येत्योङः श्यां प्रति- षेधो वक्तव्यः ॥ * ॥ काण्डे । कुण्डे । सौर्ये हिमवतः शृङ्गे । औङः शीभावे कृते यस्येति चेति सूर्यतिष्यागस्त्यमत्स्यानां य उपधाया इति च लोपः प्राप्नोति ॥ इयडुवङ्भ्यां लोपो भवति विप्रतिषेधेन ॥ * ॥ वत्सान्प्रीणाति, वत्सप्रीः । तस्यापत्यं, वात्सप्रेयः । चतुष्पाद्भ्यो ढञ् इति ढञ् प्रत्ययः । लेखाभूः शुभादिः । तस्या अपत्यं लैखाभ्रेयः ॥ सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः ॥ १४६ ॥ सूर्य तिष्य अगस्त्य मत्स्य इत्येतेषां यकारस्य उपधाया भस्य लोपो भवति ईति परतस्तद्धिते च । सूर्येणैकदिक् । सौरी । बलाका । अणि यो यस्येति लोपस्तस्यासिद्धत्वं नास्ति व्याश्रयत्वात् । ईकारे तु यस्तस्यासिद्धत्वादू उपधायकारो भस्याणन्तस्य सूर्यस्य संबन्धीति लुप्यते । तिष्य । तैषमहः । तैषी रात्रिः । अगस्त्यस्यापत्यं स्त्री क्षत्रियादणि कृते आगस्ती । आगस्तीयः । मत्स्य । गौरादित्वान् ङीष् । मत्सी । उपधाया इति किम् । मत्स्यचरी । यग्रहणंमुत्तरार्थम् । विषयपरिज्ञानमत्र कर्त्तव्यम् ॥ मत्स्यस्य ङ्यामिति वक्त- व्यम् ॥ * ॥ इह मा भूत् । मत्स्यस्येदं मांसं मात्स्यम् ॥ सूर्यागस्त्ययोश्के च ङ्यां च ॥ * ॥ सौरीयः । सौरी । आगस्तीयः । आगस्ती । इह मा भूत् । सौर्ये चरुं निर्वपेत् । आमस्त्यः ॥ तिष्यपुष्योर्नक्षत्राणि ॥ * ॥ तिष्येण नक्षत्रेण युक्तः कालः । तैषः । पौषः ॥ अन्तिकस्य तसि कादिलोप आद्युदात्तं च ॥ * ॥ अन्ति-

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 637, कुल 828 में से · BharatKosha