काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 648, कुल 828 में से
संदर्भ में पढ़ें[Header] ॥ काशिका ॥ ७ । १ ॥ ६४९
ओकारोयं शौविधे। ङिद्गृहीतो ङित्त्वास्माकं नास्ति कोयं प्रकारः । सामान्यार्थस्तस्य चाषंजनेस्मिन्ङित्कार्ये ते श्यां प्रसक्तं स दोषः ॥ ङित्त्वे विद्याद्वर्णनिर्देशमात्रं वर्णो यत्स्यात्तच्च विद्यात्तदादौ । वर्णश्चायं तेन ङित्त्वेप्यदोषो निर्देशोयं पूर्वसूत्रेण वा स्यात् ॥ नपुंसकाच्च ॥ १९ ॥ नपुंसकादङ्गादुत्तरस्य औङः शी इत्ययमादेशो भवति । कुण्डे तिष्ठतः । कुण्डे पश्य । यस्येति लोपः प्राप्तः ॥ श्यां प्रतिषेधो वक्तव्यः ॥ * ॥ इति न भवति । दधिनी । मधुनी । त्रपुणी । जतुनी ॥ जश्शसोः शिः ॥ २० ॥ नपुंसकादङ्गादुत्तरयोर्जश्शसोः शि इत्ययमादेशो भवति । कुण्डानि तिष्ठ- न्ति । कुण्डानि पश्य । दधीनि । मधूनि । त्रपूणि । जतूनि । जसा साहचर्या- त्तस्य शसो ग्रहणादिह न भवति । कुण्डशो ददाति । वनशः प्रविशन्तीति ॥ अष्टाभ्य औश् ॥ २१ ॥ अष्टाभ्य इति कृताकारोष्टशब्दो गृह्यते । तस्मादुत्तरयोर्जश्शसोरौशित्य- यमादेशो भवति । अष्टौ तिष्ठन्ति । अष्टौ पश्य । कृताकारस्य ग्रहणं किम् । अष्ट तिष्ठन्ति । अष्ट पश्य । एतदेव कृतात्वस्य ग्रहणं ज्ञापकमष्टन आ विभ- क्तावित्यस्यात्वविकल्पस्य । षड्भ्यो लुगित्यस्यायमपवादो नाप्राप्ते तस्मिन्निदमार- भ्यते । यस्तु सुपो धातुप्रातिपदिकयोरिति तस्मिन्प्राप्ते चाप्राप्ते चेति स न बाध्यते । अष्टपुत्रः । अष्टभार्य्य, इति । तदन्तग्रहणमत्रेष्यते । परमाष्टौ । उत्त- माष्टौ । प्रियाष्टान इत्यत्रात्वस्याभावादौश्त्वं न भवति ॥ षड्भ्यो लुक् ॥ २२ ॥ षट्संज्ञकेभ्य उत्तरयोर्जश्शसोर्लुग्भवति । षट् तिष्ठन्ति । षट् पश्य । पञ्च । सप्त । नव । दश । षट्प्रधानात्तदन्तादपि भवति । परमषट् । उत्त- मषट् । यत्र तूपसर्जनं षट् ततो न भवति । प्रियषषः, प्रियपञ्चान इति ॥ स्वमोर्नपुंसकात् ॥ २३ ॥ सु अम् इत्येतयोर्नपुंसकादुत्तरयोर्लुग्भवति । दधि तिष्ठति । दधि पश्य । मधु तिष्ठति । मधु पश्य । त्रपु । जतु । तद्बृहत्कुकुलमित्यत्र लुका त्यदाद्यत्वं बाध्यते पूर्वविप्रतिषेधेन नित्यत्वाद्वा । लुको हि निमित्तमतोमिति लक्षणान्तरेण विहन्यते न पुनस्त्यदाद्यत्वेनैव, यस्य च लक्षणान्तरेणनिमित्तं विहन्यते न तदनित्यं भवति ॥ अतो ऽम् ॥ २४ ॥