काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 650, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ७ । १ ॥ ६४६ भ्यसो भ्यम् ॥ ३० ॥ युष्मदस्मद्भ्यामुत्तरस्य भ्यसो भ्यमित्ययमादेशो भवति । युष्मभ्यं दीयते । अस्मभ्यं दीयते । भ्यमादेशे कृते शेषे लोपे च बहुवचने झल्येतीत्येत्वं प्राप्नोति । तदङ्गवृत्ते पुनर्वृत्तावविधिनिष्ठितस्येति न भवति । के चित्पुनरभ्यमादेशमेत्व- निवृत्त्यर्थं कुर्वन्ति । येषां तु शेषे लोपष्टिलोपास्तेषामभ्यमादेश एव । उदात्तनि- वृत्तिस्वरश्चादेरेव भवति ॥ पञ्चम्या अत् ॥ ३१ ॥ पञ्चम्या भ्यसो युष्मदस्मद्भ्यामुत्तरस्य अदित्ययमादेशो भवति । युष्मद्ग- च्छन्ति । अस्मद्गच्छन्ति ॥ एकवचनस्य च ॥ ३२ ॥ पञ्चम्या एकवचनस्य युष्मदस्मद्भ्यामुत्तरस्यादित्ययमादेशो भवति । त्वद्ग- च्छन्ति । मद्गच्छन्ति ॥ साम आकम् ॥ ३३ ॥ साम इति षष्ठीबहुवचनमागतसुट्कं गृह्यते । तस्य युष्मदस्मद्भ्यामुत्तर- स्याकमित्ययमादेशो भवति । युष्माकम् । अस्माकम् । अथ किमर्थमागतसुट्को गृह्यते । नह्यादेशविधानकाले सुड्विद्यते । तस्यैव तु भाविनः सुटो निवृत्त्य- र्थम् । आदेशे कृते हि शेषे लोपे युष्मदस्मदोरकारान्तत्वात्सुट् प्राप्नोति । स स्थानिन्यन्तर्भूतत्वान्निवर्त्तते । दीर्घाच्चारणं सवर्णदीर्घार्थम् । अकमि तु सति ह्रस्वकरणे तद्विधानसामर्थ्यादेव सवर्णदीर्घत्वं न प्राप्नोति । तत्सामर्थ्यमेत्वं प्रति भविष्यतीति । अकारकरणमेत्वनिवृत्त्यर्थमिति । अतो गुणे पररूपत्वं स्यात् ॥ आत औ णलः ॥ ३४ ॥ आकारान्तादङ्गादुत्तरस्य णल औकारादेशो भवति । पपौ । तस्थौ । जग्लौ । मम्लौ । अत्रौत्वमेकादेशः स्थानिवद्भावो द्विवचनमित्यनेन क्रमेण कार्याणि क्रियन्ते । एकादेशादनवकाशत्वादौत्वं द्विवचनादपि परत्वादेकादेश इति ॥ तुह्योस्तातङाशिष्यन्यतरस्याम् ॥ ३५ ॥ तु हि इत्येतयोराशिषि विषये तातङादेशो भवत्यन्यतरस्याम् । जीव- ताद्भवान् । जीवतात्त्वम् । जीवतु भवान् । जीव त्वम् । ङित्करणं गुणवृद्धि- प्रतिषेधार्थमिति सर्वादेशस्तातङ् भवति । ङित्त्वाच्चास्य स्थानिवद्भावाद्यापित्त्वं प्राप्नोति तन्निवर्त्तते, हिञ्च पिच्च भवति । तेन ब्रुव ईडिडिति ब्रूताद्भवानीतीङ् न भवति । आशिषीति किम् । ग्रामं गच्छतु भवान् । गच्छ त्वम् ।