भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 662, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 662

॥ काशिका ॥ ६ ॥ १ ॥ ६६१ दिव औत् ॥ ८४ ॥ दिवित्येतस्य सौ परतो औदित्ययमादेशो भवति । द्यौः । दिविति प्रातिपदिकमस्ति निरनुबन्धकम् । धातुस्तु सानुबन्धकः स इह न गृह्यते । अतद्द्यूः ॥ पथिन्मथ्यृभुक्षामात् ॥ ८५ ॥ पथिन् मथिन् ऋभुक्षिन् इत्येतेषामङ्गानां सौ परतः आकार आदेशो भवति । पन्थाः । मन्थाः । ऋभुक्षाः । स्थानिन्यनुनासिके ऽपि आकारो ऽनु- नासिको न भवति । भाव्यमानेन सवर्णानां ग्रहणं न भवतीति * शुद्धो ऽय- मुच्चार्यते ॥ इतोऽत्सर्वनामस्थाने ॥ ८६ ॥ पन्थादीनामिकारस्य स्थाने आकारादेशो भवति । सर्वनामस्थाने परतः । पन्थाः । पन्थानौ । पन्थानः । मन्थाः । मन्थानौ । मन्थानः । मन्था- नम् । मन्थानौ । पन्थानम् । पन्थानौ । ऋभुक्षाः । ऋभुक्षाणौ । ऋभुक्षाणः । ऋभुक्षाणम् । ऋभुक्षाणौ । आदिति वर्तमाने पुनरद्ग्रहणं अपूर्वार्थम् । ऋभुक्ष- णमित्यत्र वा अपूर्वस्य निगमेऽति दीर्घविकल्पः ॥ थोन्थः ॥ ८७ ॥ पथिन्मथोस्थकारस्य स्थाने न्थ इत्ययमादेशो भवति सर्वनामस्थाने परतः । पन्थाः । पन्थानौ । पन्थानः । मन्थाः । मन्थानौ । मन्थानः ॥ भस्य टेर्लोपः ॥ ८८ ॥ पन्थादीनां भसंज्ञकानां टेर्लोपो भवति । पथः । पथा । पथे । मथः । मथा । मथे । ऋभुक्षः । ऋभुक्षा । ऋभुक्षे । सर्वनामस्थानइत्यनुवर्त्तमानमपि विरोधादिह न संबध्यते ॥ पुंसो ऽसुङ् ॥ ८९ ॥ पुंस इत्येतस्य सर्वनामस्थाने परतो ऽसुङित्ययमादेशो भवति । पुमान् । पुमांसौ । पुमांसः † । इह परमपुमानिति प्रागेव विभक्त्युत्पत्तेः समासान्तोदात्त- त्वमुत्पन्नायां विभक्तौ असुङित्यनिष्टः स्वरः प्राप्नोति । तदर्थमसमुद्युपदेशिवद्वचनं कर्तव्यम् । तेन परमपुमानित्यन्तोदात्तो भवति । पुमानित्ययं पुनराद्युदात्त एव ॥ गोतो णित् ॥ ९० ॥

  • भाव्यमानो ऽण् सवर्णान्न गृह्णातीति पा० २ । † सर्वनामस्थान इत्येव । पुंसः पश्येत्यधिकमेकस्मिन्पुस्तके ।