भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 689, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 689

६८८ ॥ काशिका ॥ ७ ॥ २ ॥ प्रथमायाश्च द्विवचने परतो भाषायां विषये युष्मदस्मदोराकारादेशो भवति । युवाम् । आवाम् । प्रथमाया इति किम् । युवयोः । आवयोः । द्विवचनइति किम् । त्व,महं, यूयं, वयम् । भाषायामिति किम् । युवं वस्त्राणि पीवसा वसाथे ॥ योऽचि ॥ ८९ ॥ अजादौ विभक्तावनादेशे युष्मदस्मदोर्यकारादेशो भवति । त्वया । मया । त्वयि । मयि । युवयोः । आवयोः । अचीति किम् । युवाभ्याम् । आवाभ्याम् । युष्मदस्मदोरनादेशइत्यत्र यदि हलीत्यनुवर्त्तेत शक्यमकर्त्तुमची- त्येतत् तत्क्रियते विस्पष्टार्थम् । अनादेशइत्येव । त्वद्गच्छति । मद्गच्छति ॥ शेषे लोपः ॥ ९० ॥ शेषे विभक्तौ युष्मदस्मदोर्लोपो भवति । कश्च शेषः, यत्राकारो यका- रश्च न विहितः । पञ्चम्याश्च चतुर्थ्याश्च षष्ठीप्रथमयोरपि । यान्यद्विवचनान्यथ तेषु * लोपो विधीयते ॥ त्वम् । अहम् । यूयम् । वयम् । तुभ्यम् । मह्यम् । युष्मभ्यम् । अस्म- भ्यम् । त्वत् । मत् । युष्मत् । अस्मत् । तव । मम । युष्माकम् । अस्माकम् । शेषग्रहणं विस्पष्टार्थम् । शेषे लोपे कृते स्त्रियां टाप् कस्मान्न भवति, त्वं ब्राह्मणी । अहं ब्राह्मणी । संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य । अलिङ्गे वा युष्मदस्मदी इति । के चित्तु शेषे लोपं टिलोपमिच्छन्ति । कथं वक्ष्यमाणादेशापेक्षः शेषः, ते चादेशा मपर्यन्तस्य विधीयन्ते । तेन मपर्यन्ताद् योऽन्यः स शेष इति । तत्रायं लोप इति टिलोपो भवति ॥ मपर्यन्तस्य ॥ ९१ ॥ मपर्यन्तस्येत्ययमधिकारो, यदि त ऊर्ध्वमनुक्रमिष्यामो मपर्यन्तस्येत्येवं तद्वेदितव्यम् । वक्ष्यति । युवावौ द्विवचने । युवाम् । आवाम् । मपर्यन्तस्येति किम् । युवकामावकामति साकच्कस्य मा भूत् । त्वमावेकवचने । त्वया । मया । मपर्यन्तस्येति किम् । सर्वस्य मा भूत् । तथा च सति त्वमयोराकारस्य योऽचीति यकारे कृते ऽनिष्टं रूपं स्यात् । मान्तस्येत्येव सिद्धे ऽस्मिन् यत्पर्य- न्तग्रहणं कृतमवधिकद्योतनार्थं तन्मान्ते मा भूत्, कंसा, यद्वा † श्यनस्योः क्विपि मान्तत्वं विज्ञाते, युष्मदस्मदोः स्थानिवत्त्वं च योरञ् क्वौ लुप्तत्वाच्च विज्ञायते ॥

  • शेषे इति बहुषु पुस्तकेषु पाठः । † मा भूद्यद्वा सर्वेति पदमंजरीधृतः पाठः ।