भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 699, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 699

ग्राह्वानं तत्संबन्धभेदप्रतिपत्त्यर्थं दिक्पूर्वपदो हि समुदायः पूर्वैषुकामशम्यादिः ग्रामनामधेयम् । पाटलिपुत्रादिः पुनरुत्तरपदमेव नगरमाह । तत्र ग्रामवाचि- नमाह्वानानामवयवस्य दिक्शब्दादुत्तरस्य वृद्धिर्भवतीत्येवमभिसंबन्धः क्रियते । इतरत्र तु दिश उत्तरेषां नगराणामित्येव । पूर्वैषु कामशम इत्येवमादिषु कृता- यामुत्तरपदवृद्धौ एकादेशो भवतीति ज्ञापितं नेन्द्रस्य परस्येति प्रतिषेधेन ॥ संख्यायाः संवत्सरसंख्यस्य च ॥ १५ ॥ संख्याया उत्तरपदस्य संवत्सरशब्दस्य संख्यायाश्चाचामादेरचः स्थाने वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः । द्वौ संवत्सरावधीतो भृतो भूतो भावी वा द्विसांवत्सरिकः । संख्यायाः । द्वे षष्टी अधीतो भृतो भूतो भावी वा, द्विषाष्टिकः । द्विसाप्ततिकः । द्विषष्ट्यादिशब्दो वर्षेषु संख्येयेषु वर्त- मानः कालाधिकारविहितं प्रत्ययमुत्पादयति । परिमाणान्तस्येत्येव सिद्धे संव- त्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणार्थम् । तेन द्वैसर्गिकः त्रैस- र्गिक इत्युत्तरपदवृद्धिर्न भवति । द्विवर्षा त्रिवर्षा माषविक्रेत्यपरिमाणबिस्ताचि- तेति पर्युदासो न भवति ॥ वर्षस्याभविष्यति ॥ १६ ॥ संख्याया उत्तरस्य वर्षशब्दस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः, स चेत्तद्धितो भविष्यत्यर्थे न भवति । द्विवर्षे अधीतो भृतो भूतो वा, द्विवार्षिकः । त्रिवार्षिकः । अभविष्यतीति किम् । यस्य त्रैवर्षिकं धान्यं निहितं भृत्यवृत्तये अधिकं वापि विक्रेत स सोमं पातुमर्हति । त्रीणि वर्षाणि भावीति त्रैवार्षिकम् । अधीष्टभृतयोरभविष्यतीति प्रतिषेधो न भवति । गम्यते हि तत्र भविष्यत्ता न तु तद्धितार्थः । द्वे वर्षे अधीतो भृतो वा कर्म्म करिष्य- तीति, द्विवार्षिको मनुष्यः ॥ परिमाणान्तस्यासंज्ञाशाणयोः ॥ १७ ॥ परिमाणान्तस्याङ्गस्य संख्यायाः परं यदुत्तरपदं तस्याचामादेरचो वृद्धि- र्भवति तद्धिते ञिति णिति किति च परतः, संज्ञायां विषये शाणे चोत्तरपदे न भवति । द्वौ कुडवौ प्रयोजनमस्य, द्विकौडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतं, द्विसौ- वर्णिकम् । विभाषा कार्षापणसहस्राभ्यामित्यत्र सुवर्णशतमानयोरुपसंख्यानमिति लुको विकल्पः । द्वाभ्यां निष्काभ्यां क्रीतं, द्वित्रिपूर्वान्निष्काद्, द्विनैष्किकम् । असंज्ञाशाणयोरिति किम् । पञ्चलोहितिकम् । पञ्चकपालिकम् । पञ्च लोहित्यः परिमाणमस्य पञ्च कपालानि परिमाणमस्येति विगृह्य तदस्य परिमा- णमिति योगविभागात्प्रत्ययस्तद्धितान्तश्चायं समुदायः संज्ञा । द्वाभ्यां शाणाभ्यां