काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 705, कुल 828 में से
संदर्भ में पढ़ें७०४ ॥ काशिका ॥ ७ । ३ ॥ कृतात्त्वानां ग्रहणं युकः प्राप्तिमाख्यातुम् । किमेतस्याख्याने प्रयोजनम् । एत- स्मिन् प्रकरणे लक्षणप्रतिपदोक्तपरिभाषा नास्तीत्युपदिश्यते । तेनाध्यापयति ज्ञापयतीत्येवमादि सिद्धं भवति ॥ वा विधूनने जुक् ॥ ३८ ॥ वा इत्येतस्य विधूननेऽर्थे वर्त्तमानस्य जुगागमो भवति णौ परतः । वस्त्रेणापवाजयति । विधूननइति किम् । आवापयति केशान् । किमर्थं सूत्रं वज गतौ ण्यन्तस्य सिद्धत्वात् । वातेर्युग्मा भूदित्येवमर्थम् । पै ओवै शोषणे इत्यस्यैतद्रूपम् ॥ लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने ॥ ३९ ॥ ली ला इत्येतयोरङ्गयोरन्यतरस्यां नुक् लुक् इत्येतावागमौ भवतो णौ परतः स्नेहविपातनेऽर्थे । घृतं विलाययति । विलीनयति घृतं, विलालप्रति । विलापयति । ली ई इतीकारः प्रश्लिष्यते तत ईकारान्तस्यैव नुग्भवति, न तु कृतात्त्वस्य विभाषा लीयतेरिति । स्नेहविपातनइति किम् । जतु विलाप- यति । जटाभिरालापयते । ली इति लीलीङोर्ग्रहणम् । ला इति लातेः कृतात्त्वस्य च लीयतेः ॥ भियो हेतुभये षुक् ॥ ४० ॥ भी इत्येतस्य हेतुभयेऽर्थे षुगागमो भवति णौ परतः । मुण्डो भीषयते । जटिलो भीषयते । अत्रापि भी ई इतीकारप्रश्लेषः कृतात्त्वस्य युङ्निवृत्त्यर्थः । मुण्डो भापयते इत्येवं हि तत्र भवति । हेतुभयइति किम् । कुञ्चिकयैनं भाययति । नात्र हेतुः प्रयोजको भयकारणं किं तर्हि कुञ्चिका ॥ स्फायो वः ॥ ४१ ॥ स्फाय् इत्येतस्याङ्गस्य वकारादेशो भवति णौ परतः । स्फावयति ॥ शदेरगतौ तः ॥ ४२ ॥ शदे रङ्गस्यागतावर्थे वर्त्तमानस्य तकारादेशो भवति णौ परतः । पुष्पाणि शातयति * । अगताविति किम् । गाः शादयति गोपालकः ॥ रुहः पोऽन्यतरस्याम् ॥ ४३ ॥ रुहेरङ्गस्यान्यतरस्यां पकारादेशो भवति णौ परतः । व्रीहीन् रोपयति । व्रीहीन् रोहयति ॥ प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः ॥ ४४ ॥
- फलानि शातयतीति पुस्तकान्तरे ऽधिकम् ।