काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 714, कुल 828 में से
संदर्भ में पढ़ेंप्वादीनां ह्रस्वः ॥ ८० ॥ पू इत्येवमादीनां ह्रस्वो भवति शिति परतः । प्वादयः क्र्यादिषु पठ्यन्ते । पूञ् पवनइत्यतः प्रभृति व्ली गतौ वृदिति यावत्के चिदिच्छन्ति, वृत्करणमेतल्ल्वादीनां प्वादीनां च परिसमाप्त्यर्थमिति । अपरे तु ल्वादीना- मेव परिसमाप्त्यर्थं वृत्करणमेतदिच्छन्ति । आगणात्ताः प्वादय इति । पूञ् । पुनाति । लूञ् । लुनाति । स्तूञ् । स्तुणाति । येषामागणान्ताः प्वादयस्तेषां जानातीत्यत्रापि ह्रस्वः प्राप्नोति । ज्ञाजनोर्जा इति दीर्घकरणसामर्थ्यान्न भवति । जनेरपि हि जादेशे सति अतो दीर्घो यञीति दीर्घत्वेन जायत- इति सिद्धति ॥ मीनातेर्निगमे ॥ ८१ ॥ मीनातेर्ह्रस्व शिति प्रत्यये परतो ह्रस्वो भवति निगमविषये । प्रमि- णन्ति व्रतानि । निगमइति किम् । प्रमीणाति ॥ मिदेर्गुणः ॥ ८२ ॥ मिदेरङ्गस्येको गुणो भवति शिति प्रत्यये परतः । मेद्यति । मेद्यतः । मेद्यन्ति ।