काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 752, कुल 828 में से
संदर्भ में पढ़ेंदेवदत्त ग्रामं पश्यत्वेनं यज्ञदत्तः । सर्वग्रहणानुवृत्तेस्त्विह भवत्येव । आगच्छ देवदत्त ग्रामं त्वं चाहं च पश्याव । पृथग्योगकरणमुत्तरार्थम् ॥ विभाषितं सोपसर्गमनुत्तमम् ॥ ५३ ॥ सर्वं पूर्वमनुवर्त्तते । प्राप्तविभाषेयं, लोडन्तं सोपसर्गमुत्तमवर्जितं गत्यर्थ- लोटा युक्तं तिङन्तं विभाषितं नानुदात्तं भवति न चेत्कारकं सर्वान्यद्भवति । आगच्छ देवदत्त ग्रामं प्रविश । २ । आगच्छ देवदत्त ग्रामं प्रशाधि । २ । सोपसर्गमिति किम् । आगच्छ देवदत्त ग्रामं पश्य । अनुत्तममिति किम् । आगच्छानि देवदत्त ग्रामं प्रविशानि ॥ हन्त च ॥ ५४ ॥ पूर्वं सर्वमनुवर्त्तते गत्यर्थलोटं वर्जयित्वा । हन्त इत्यनेन युक्तं लोडन्तं सोपसर्गमुत्तमवर्ज्जितं विभाषितं नानुदात्तं भवति । हन्त प्रविश २ । हन्त प्र- शाधि २ । सोपसर्गमित्येव । हन्त कुरु । निपातैर्यद्यदिहन्तेति नित्यमत्र निघा- तप्रतिषेधो भवति । अनुत्तममित्येव । हन्त प्रभुनजावहै । हन्त प्रभुनजामहै ॥ आम एकान्तरमामन्त्रितमनन्तिके ॥ ५५ ॥ आम उत्तरमेकपदान्तरमामन्त्रितान्तमन्नन्तिके नानुदात्तं भवति । आम् पचसि देवदत्त३ । आम् भो देवदत्त३ । भो इत्यामन्त्रितान्तमपि नामन्त्रिते समानाधिकरणे सामान्यवचनमिति नाविद्यमानवद्भवति । आम इति किम् । शाकं पचसि देवदत्त३ । एकान्तरमिति किम् । आम् प्रपचसि देवदत्त३ । आम- न्त्रितमिति किम् । आम्पचति देवदत्तः । अनन्तिकइति किम् । आम् देवदत्त ॥ आम एकान्तरमामन्त्रितं यत्तस्य एकश्रुतेरनुदात्तस्य च प्रतिषेध इष्यते ॥ तदुभ- यमनेन क्रियतइति के चिदाहुः । प्लुतोदात्तः पुनरसिद्धत्वाच्च प्रतिषिध्यते । अपरेषां दर्शनमनन्तिकइत्यनेन यच्च दूरं न संनिकृष्टं तत्परिगृह्यते । तेनास्मि- न्नेकश्श्रुतेः प्राप्तिरेव नास्ति । प्लुतोदात्तोपि नोदाहर्त्तव्य इति ॥ यद्धितुपरं छन्दसि ॥ ५६ ॥ आमन्त्रितमित्येतदस्वरितत्वान्नानुवर्त्तते । तिङिति वर्ततएव । यत्परं हिपरं तुपरं च तिङन्तं छन्दसि नानुदात्तं भवति । यत्परं तावत् । गवां गोत्रमुदसृजो यदङ्गिरः । हिपरम् । इन्द्रवो वामुशन्ति हि । तुपरम् । आख्या- स्यामि तु ते । निपातैर्यद्यदिहन्तेति हि चेति तुपश्यपश्यताहेरिति च निघा- तप्रतिषेधे सिद्धे वचनमिदं नियमार्थम्, एभिरेव परैर्योगे प्रतिषेधो भवति नान्यैरिति । इह न भवति । जाये स्वारोहावै हि । एहीत्यनेन गत्यर्थलोटा युक्तस्य रोहावेत्यस्य लोडन्तस्य निघातो भवत्येव ॥