काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 767, कुल 828 में से
संदर्भ में पढ़ें६६६ ॥ काशिका ॥ ८ ॥ २ ॥ संयोगान्तस्य पदस्य लोपो भवति । गोमान् । यवमान् । कृतवान् । हतवान् । इह श्रेयान् भूयानिति रुत्वं परमप्यसिद्धत्वात् संयोगान्तस्य लोपं न बाधते । जश्त्वे तु नाप्राप्ते तदारभ्यतइति तस्य बाधकं भवति । यशः पय इति । दध्यत्र मध्वत्रेत्यत्र तु यणादेशस्य बहिरङ्गतयास्यासिद्धत्वात्संयोगा- न्तलोपो न भवति । पदस्येति किम् । गोमन्तौ गोमन्त इति ॥ रात्सस्य ॥ २४ ॥ संयोगान्तपदस्य यो रेफस्तस्मादुत्तरस्यान्तस्य सकारस्य लोपो भवति । गोभिर्त्ताः । प्रत्यङ्गमत्साः । तरतेः त्सरतेश्च लुङि सिचश्छान्दसत्वादीड- भावो बहुलं छन्दसीति वचनाद्दीर्घे सति रूपमेतत् । मातुः पितुरिति । ऋत उदिति उत्वे कृते रपरत्वे च सति रात्सस्येति सलोपः । सिद्धे सत्यारम्भो [L1