भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 792, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 792

॥ काशिका ॥ ८ ॥ ३ ॥ ७९१ मय उञो वो वा ॥ ३३ ॥ मय उत्तरस्य उञो वा वकारादेशो भवति अचि परतः । शमुअस्तु वेदिः । शम्वस्तु वेदिः । तदु अस्य परेतः । तद्वस्य परेतः । किमु आवपनम् । किम्वावपनम् । प्रगृह्यत्वादुञः प्रकृतिभावे प्राप्ते वकारो विधीयते । तस्यासि- द्धत्वाद्धलीति मो ऽनुस्वारो न भवति ॥ विसर्जनीयस्य सः ॥ ३४ ॥ खरीत्यनुवर्त्तते । विसर्जनीयस्य सकार आदेशो भवति खरि परतः । वृक्षश्छादयति । प्लक्षश्छादयति । वृक्षष्ठकारः । प्लक्षष्ठकारः । वृक्षस्थकारः । प्लक्ष- स्थकारः । वृक्षश्चिनोति । प्लक्षश्चिनोति । वृक्षष्टीकते । प्लक्षष्टीकते । वृक्षस्तरति । प्लक्षस्तरति ॥ शर्परे विसर्जनीयः ॥ ३५ ॥ शर्परे खरि परतो विसर्जनीयस्य वि

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 792, कुल 828 में से · BharatKosha