काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 80, कुल 828 में से
संदर्भ में पढ़ेंमा भूत्। असेस्त्वाचेत्वजोप्रसर्गद्याकुर्या मस्तिष्यंचपर इति षत्वं प्रसज्येत। चकारः संज्ञासमावेशार्थः। प्रणीतम्। अभिषिक्तम्। गतिरनन्तर इति स्वर उपसर्गो- दिति णत्वषत्वे च भवतः। कारिकाशब्दस्योपसंख्यानम् ॥ * ॥ कारिकाकृत्य। कारिकाकृतम्। यत्कारिकाकरोति। पुनश्चनसौ छन्दसि गतिसंज्ञौ भवत इति वक्तव्यम् ॥ * ॥ पुनरुत्स्यूतं वासो देयम्। गतिर्गताविति निघातो भवति । चनोहितः। गतिरनन्तर इतिस्वरः। गतिप्रदेशाः कुगतिप्रादय इत्येवमादयः॥ ऊर्यादिच्चिडाचश्च ॥ ६१ ॥ ऊर्यादयः शब्दाः च्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञा भवन्ति । च्चिडाचोः कृञ्वस्तियोगे विधानं तत्साहचर्यादूर्यादीनामपि तैरेव योगे गतिसंज्ञा विधीयते। ऊरीउररीशब्दावङ्गीकरणे विस्तारे च। ऊरीकृत्य। ऊरीकृतम्। यदू- रीकरोति। उररीकृत्य। उररीकृतम्। यदुररीकरोति। पापी। ताली। आताजी। वेताली। धूली। शकला। संशकला। ध्वंसकला। भ्रंशकला। एते शकलादयो हिंसायाम्। शकलाकृत्य। संशकलाकृत्य। ध्वंसकलाकृत्य। भ्रंशकलाकृत्य। गुलुगुधा पीडार्थे। गुलुगुधाकृत्य। सजूः सहार्थे। सजूःकृत्य। फलू, फली, विक्ली, आक्ली, इति विकारे। फलूकृत्य। फलीकृत्य। विक्लीकृत्य। आक्लीकृत्य। आलोष्ठी, कराली, केवाली, शेवाली, वर्षाली, मस्मसा, मसमसा, एते हिंसायाम्। वषट्। वौषट्। श्रौषट्। स्वाहा। स्वधा। बन्धा। प्रादुस्। श्रत्। आविस्र्। च्यन्ताः खल्वपि। शुक्लीकृत्य। शुक्लीकृतम्। यच्छुक्लीकरोति। डाच्। पटपटाकृत्य। पटपटाकृतम्। यत्पटपटाकरोति ॥ अनुकरणं चानितिपरम् ॥ ६२ ॥ इतिः परो यस्मादिति बहुव्रीहिः। अनुकरणमनितिपरं क्रियायोगे गतिसंज्ञं भवति। खाट्कृत्य। खाट्कृतम्। यत् खाट्करोति। अनितिपरमिति किम्। खाडिति कृत्वा ‘निरष्ठीवत् ॥ आदरानादरयोः सदसती ॥ ६३ ॥ प्रीत्यतिशय आदरः * । परिभवोदासीन्यमनादरः। आदरानादरयोर्व- र्तमानं सदसच्छब्दौ गतिसंज्ञौ भवतः। सत्कृत्य। सत्कृतम्। यत्सत्करोति। असत्कृत्य। असत्कृतम्। यदसत्करोति। आदरानादरयोरिति किम्। सत्कृत्याकाष्ठं गतः। असत्कृत्या काष्ठं गतः ॥ भूषणे ऽलम् ॥ ६४ ॥
- प्रीतिसंभ्रम इति पाठान्तरम्।