भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 801, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 801

८०० ॥ काशिका ॥ ८ । ३ ॥ न्यषहते । विषहते । पर्यषहत । न्यषहत । व्यषहत । पर्यसहत । न्यसहत । व्यसहत । सुट् । परिष्करोति । पर्यस्करोत् । स्तु । परिष्टौति । निष्टौति । विष्टौति । पर्यष्टौत् । न्यष्टौत् । व्यष्टौत् । पर्यस्तौत् । न्यस्तौत् । व्यस्तौत् । ष्वञ्ज । दंशसञ्जस्वञ्जामिति नलोपः । परिष्वजते । विष्वजते । निष्ष्वजते । पर्यष्वजत । पर्यस्वजत । पूर्वेणैव सिद्धे स्तुस्वञ्जिग्रहणमुत्तरार्थम् । चाड्व्यवाये विभाषा यथा स्यात् ॥ सिवादीनां वाड्व्यवायेपि ॥ ७१ ॥ अनन्तरसूत्रे षिव्सहसुट्स्तुस्वञ्जामिति सिवादयः । सिवादीनामड्व्य- वायेपि परिनिषिभ्य उत्तरस्य सकारस्य वा मूर्धन्यो भवति । तथा चैवो- दाहृतम् * ॥ अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु ॥ ७२ ॥ अनु वि परि अभि नि इत्येतेभ्य उत्तरस्य स्यन्दतेरप्राणिषु सकारस्य वा मूर्धन्यादेशो भवति । अनुष्यन्दते । विष्यन्दते । परिष्यन्दते । अभिष्यन्दते तैलम् । निष्यन्दते । अनुस्यन्दते । विस्यन्दते । परिस्यन्दते । अभिस्यन्दते । निस्यन्दते । अप्राणिष्विति किम् । अनुस्यन्दते मत्स्य उदके । प्रायेणप्राणिवि- षयस्यापि स्यन्दतेरयं विकल्पो भवति । अनुष्यन्दते मत्स्योदके । अनुस्यन्दते । अप्राणिष्विति पर्युदासोऽयं न प्रसज्य प्रतिषेधः ॥ वेः स्कन्देरनिष्ठायाम् ॥ ७३ ॥ वेरुपसर्गादुत्तरस्य स्कन्देः सकारस्य मूर्धन्यो वा भवति अनिष्ठायाम् । विष्कन्ता । विस्कन्ता । विष्कन्तुम् । विस्कन्तुम् । विष्कन्तव्यम् । विस्कन्त- व्यम् । अनिष्ठायामिति किम् । विस्कन्नः ॥ परेश्च ॥ ७४ ॥ परिशब्दाच्चोत्तरस्य स्कन्देः सकारस्य वा मूर्धन्यो भवति । परिष्कन्ता । परिष्कन्तुम् । परिष्कन्तव्यम् । परिस्कन्ता । परिस्कन्तुम् । परिस्कन्तव्यम् । पृथ- ग्योगकरणसामर्थ्यादनिष्ठायामित्येतन्निवर्त्तते । परिष्कण्णः । परिस्कन्नः ॥ परिस्कन्दः प्राच्यभरतेषु ॥ ७५ ॥ परिस्कन्द इति मूर्धन्याभावो निपात्यते प्राच्यभरतेषु प्रयोगविषयेषु । पूर्वेण मूर्धन्ये प्राप्ते तदभावो निपात्यते । परिस्कन्दः । अन्यत्र परिष्कन्दः । अचि निपातनम् । अथ वा निष्ठातकारस्य लोपः, भरतग्रहणं प्राच्यविशेषणम् ॥

  • क चिह्नितपुस्तके पूर्वसूत्रोदाहृतान्यड्घटितानि रूपाण्यत्रेवोदाहृतानि ।