काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 816, कुल 828 में से
संदर्भ में पढ़ेंशूद्रः । प्रणसः प्रणो राजा । न च भवति । प्र नो मुञ्चतम् । बहुलग्रहणाद्भा- षायामपि भवति । प्रणसंमुखम् * । उपसर्गाच्चेति नासिकाया नसादेशः ॥ कृत्यचः ॥ २९ ॥ कृत्यस्थो यो नकारो ऽच उत्तरस्तस्योपसर्गस्थान्निमित्तादुत्तरस्य णकारा- देशो भवति । अन मान अनीय अनि इनि निष्ठादेश एते णत्वं प्रयोजयन्ति । अन । प्रयाणम् । परियाणम् । प्रमाणम् । परिमाणम् । मान । प्रयायमाणम् । परियायमाणम् । अनीय । प्रयाणीयम् । परियाणीयम् । अनिः । अप्रयाणिः । अपरियाणिः । इनि । प्रयायिणी । परियायिणी । निष्ठादेशः । प्रहीणः । परिहीणः । प्रहीणवान् । परिहीणवान् । अच इति किम् । प्रभुग्नः । परि- भुग्नः । भुजो कौटिल्ये । अस्य निष्ठाप्रत्ययः । ओदितश्चेति निष्ठानत्वम् । चोः कुरिति कुत्वे सिद्धं परिभुग्न इति † ॥ कृत्यस्य णत्वे निर्विण्णस्योपसं- ख्यानं कर्तव्यम् ॥ * ॥ निर्विण्णोऽस्मि खलसङ्गेन । निर्विण्णोहमत्र वासेन ॥ णेर्विभाषा ॥ ३० ॥ ण्यन्ताद्यो विहितः कृत्प्रत्ययः तत्स्थस्य नकारस्योपसर्गस्थान्निमित्तादुत्त- रस्य विभाषा णकारादेशो भवति । प्रयापणम् । प्रयापनम् । परियापणम् । परियापनम् । प्रयाप्यमाणम् । प्रयाप्यमानम् । प्रयापणीयम् । प्रयापनीयम् । अप्रयापणिः । अप्रयापनिः । प्रयापिणौ । प्रयापिनौ । विहितविशेषणं किम् । प्रयाप्यमाणमित्यत्र यका व्यवधानेपि यथा स्यादिति ॥ हलश्चेदुपधात् ॥ ३१ ॥ कृत्यच इति वर्तते । हलादिर्यो धातुरिदुपधस्तस्मात्परो यः कृत्प्रत्ययः तत्स्थस्य नकारस्याच उत्तरस्योपसर्गस्थान्निमित्तादुत्तरस्य विभाषा णकारादेशो भवति । प्रकोपणम् । प्रकोपनम् । परिकोपणम् । परिकोपनम् । हल इति किम् । प्रेहणम् । प्रेहनम् । इदुपधादिति किम् । प्रवपणम् । परिवपणम् । कृत्यच इति नित्ये प्राप्ते विकल्पः । अच इत्येव । परिभुग्नः । इदुपधस्य सर्वस्य हलन्तत्वादिह हल्ग्रहणमादिविशेषणम् ॥ इजादेः सनुमः ॥ ३२ ॥ हल इति वर्तते । तेनेह सामर्थ्यात्तदन्तविधिः । इजादेः सनुमो हल- न्ताद्धातोर्विहितो यः कृत्तत्स्थस्य नकारस्योपसर्गस्थान्निमित्तादुत्तरस्य णकारो भवति । प्रेङ्खणम् । परेङ्खणम् । प्रेङ्खणम् । परेङ्खणम् । प्रोम्भणम् । परोम्भणम् ।
- क चित्पुस्तके छन्दसीति निवृत्तं तेन भाषायामपि भवतीति पाठः । † क चित्भुजो कौटिल्यइत्यारभ्यैतत्पर्यन्तं नास्ति ।