भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 94, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 94

॥ काशिका ॥ २ ॥ १ ॥ ८७ द्वितीयाग्रहणमुत्तरार्थमनुवर्त्तते । स्वयमित्येतत्सुबन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति । स्वयंधौतौ पादौ । स्वयंविलीनमाज्यम् । ऐकप- द्यमैकस्वर्यं च समासत्वाद्भवति ॥ खट्वा क्षेपे ॥ २६ ॥ खट्वाशब्दो द्वितीयान्तः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरु- षश्च समासो भवति । क्षेपो निन्दा स च समासार्थ एव, तेन विभाषाधि- कारेपि नित्यसमास एवायं, नहि वाक्येन क्षेपो गम्यते । खट्वारोहणं चेह विमार्गप्रस्थानस्योपलक्षणम् । सर्व एवाविनीतः खट्वारूढ इत्युच्यते । खट्वारूढो जाल्मः । खट्वाप्रुतः । अपथप्रस्थित इत्यर्थः । क्षेपइति किम् । खट्वामारूढः ॥ सामि ॥ २७ ॥ सामित्येतदव्ययमर्द्धशब्दपर्यायस्तस्यासत्त्ववाचित्वाद् द्वितीया नास्ति संबन्धः तत् सुबन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति । सामि- कृतम् । सामिपीतम् । सामिभुक्तम् । ऐकपद्यमैकस्वर्यं च समासत्वाद्भवति ॥ कालाः ॥ २८ ॥ द्वितीया क्तेनेति वर्त्तते । कालवाचिनः शब्दा द्वितीयान्ताः क्तान्तेन सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति । अत्यन्तसंयोगार्थं वच- नम् । काला इति न स्वरूपविधिः । षण्मुहूर्त्ताश्चराचराः । ते कदा चिदह- र्गच्छन्ति कदा चिद्रात्रिम् । अहरतिसृता मुहूर्त्ताः । अहस्संक्रान्ताः । रात्र्य- तिसृता मुहूर्ताः । रात्रिसंक्रान्ताः । मासप्रमितश्चन्द्रमाः । मासं प्रमातुमा- रब्धः प्रतिपच्चन्द्रमा इत्यर्थः ॥ अत्यन्तसंयोगे च ॥ २९ ॥ काला इति वर्त्तते, क्तेनेति निवृत्तम् । अत्यन्तसंयोगः कृत्स्नसंयोगः कालस्य स्वेन संबन्धिना व्याप्तिः । कालवाचिनः शब्दा द्वितीयान्ता अत्यन्त- संयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति । मुहूर्तं सुखम्, मुहूर्त्तसुखम् । सर्वरात्रकल्याणी । सर्वरात्रशोभना ॥ तृतीया तत्कृतार्थेन गुणवचनेन ॥ ३० ॥ सुप् सुपेति वर्त्तते, तस्य विशेषणमेतत् । तृतीयान्तं सुबन्तं गुणवचने- नार्थशब्देन च सह समस्यते, तत्पुरुषश्च समासो भवति । कीदृशेन गुणवच- नेन तत्कृतेन, तदर्थकृतेन, तृतीयान्तार्थकृतेनेति यावत् । शङ्कुलया खण्डः शङ्कुलाखण्डः । किरिणा काणः, किरिकाणः । अर्थशब्देन । धान्येनार्थः, धान्या- र्थः । तत्कृतेनेति किम् । अक्ष्णा काणः । गुणवचनेनेति किम् । गोभिर्वपावान् ॥