काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 144, कुल 942 में से
संदर्भ में पढ़ें१३० | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
भारते समागमनं न खल्वाश्चर्यावहम्। विजिगीषुराष्ट्रमभिगम्यराष्ट्राणां बलवीर्यसभ्यतापरिस्थितीः प्रथमतॊ विविच्यैव पादौ प्रसारयतीति भारतमभ्यागच्छतो यवनपतेः प्रागपि भारतीयां परिस्थितिं यथावदवबोद्धुमनेके विचक्षणा यवना अत्रोपगताः स्युः। भार Hopkins... भारतोपकण्ठमधिष्ठितैर्वा यवनैरधिभारतं यवनानां दृश उन्मीलिता भवेयुः। विजिगीषया भारतमभ्युपेत्य कञ्चन प्रदेशमपि विजितवतो यवनेशस्य अलेक्जेण्डरस्य झटिति प्रतिनिवर्तने चिरकालात् प्रोषितानां स्वसैन्यानामशान्तिः केवलं न हेतुः प्रतीयते। अपि तु स्वसैन्यक्षुण्णं पूर्वागमनमार्गं परिहाय नवेन नौमार्गेण झटिति प्रतिनिवर्तने मुद्राराक्षसोक्त्यालोचनेन किञ्चन कारणान्तरमपि स्यादित्यालोच्यते। भारतं प्रविष्टस्यापि यवनेशस्य झटिति प्रतिनिवर्तनोल्लेखेन तदात्वे चाणक्यसाचिव्यमुपेतेन चन्द्रगुप्तेनाधिष्ठिते अन्तरान्तरोपजातानाघातानपि विषह्य स्वपूर्वसम्प्रदायरक्षणशीले भारते न तथा यावनप्रभावस्य प्रसरणमुपलक्ष्यते॥
'तक्षशिलाकाश्युज्जयिनीविदर्भादिषु भारतीया विश्वविद्यालय आसन्। अलेक्जेण्डरेण तक्षशिलाया आक्रमणसमये तक्षशिला समस्ते एशियाखण्डे सर्वातिशायि भारतीयविद्यापीठमासीत्। तत्र सर्वाः कलाः, सर्वाणि विज्ञानानि, सैनिकीं विद्यां, भैषज्यविद्यां च शिक्षयद्भिर्बहुभिर्महाविद्वद्भिरधिष्ठितो देशदेशान्तरेभ्यः समागच्छद्भिर्बहुभिर्विद्यार्थिभिश्च समृद्धो महान् विश्वविद्यालय आसीत्; यो भारतीयविद्यानां प्रसिद्धतरं स्थानं बभूव। तत्रापि सर्वा विद्या अतिशय्य भैषज्यविद्यायामस्य विश्वविद्यालयस्य विशेषतः प्रसिद्धिः प्रतिष्ठा चासीत्' इति विलडूराण्ट (Will Durant) महाशयो व¹र्णयति। 'तक्षशिला महत्तरोन्नतिशीला नगर्यासीत्' इति एरियन (Arrian) महाशयोऽपि निर्दिशति॥
सिन्धुसमीपस्थमूषकराज्यवर्णने 'तत्प्रदेशीया जनाः १३० वर्षपर्यन्तमपि जीवन्ति स्म। तेषामेवं दीर्घायुष्यस्य परिमिताहार एवं निदानम्। विद्यान्तरेभ्यो वैद्यकविद्यामेवाध्येतुं ते प्रवणीभवन्ति' इत अलेक्जेण्डरस्य इतिहासलेखकः एरियन् (Arrian) नामको वदतीति स्मिथमहाशयो व²र्णयति। मूषकप्रदेशे त्रिंशदधिकशतवर्षायुष्यस्यासाधारणतया दर्शनमलेक्जेण्डरस्य सिन्धुप्रदेशपर्यन्तमागमनं चात्र मूषकप्रदेशस्य विशेषोल्लेखे हेतुः स्यात्। ष्ट्रा³बो (Strabo) महाशयोऽपि “They do not pursue accurate knowledge in any line, except that of medicine,” एवं वर्णयति। पाथागोरसादीतिवृत्तान्तरेभ्यो भारते आध्यात्मिकादिविद्यान्तरेष्वपि गौरवस्य स्पष्टतया विद्यान्तरापेक्षया भैषज्यविज्ञाने तेषां पूर्णत्वमेवानेनापि लेखेन प्रकटीक्रियते। अन्येषु बहुशो भारतीयविद्वत्सु अजिगमिषत्सु अलेक्जेण्डरेण तक्षशिलातः सादरं सह नीतः कल्याण-(Plutarch reproduces as Sphines but the Greeks Called him Kalanos) नामको भारतीयो दार्शनिको विद्वान् तं ग्रीसाधिपतिं परितो वर्तमानेषु दार्शनिकविद्वज्जनेषु सर्वमहत्तरोऽति संमान्यश्चा- सीत्। पश्चाद्देहजिहासया चितामारोहतस्तस्य ग्रीसाधिपतिनाऽन्तिमसंमानगौरवमतिशयेन व्यधायि। एतस्य भारतीय विदुषो वृत्तं एरियन-ष्ट्राबोविद्वद्वयामप्युल्लिखितमस्तीति राप्स⁴न (Rapson)-महाशयेन वर्णितं लभ्यते। स
१. (a) The oldest of the two thousand cities of northern India in Chandragupta’s time was Taxila ........ Arrian describes it as ‘a large and prosperous city’; Strabo says, ‘it is large and has most excellent laws’. It was both a military and university town .... and containing the most famous of the several universities possessed by India at that time. Students flocke to Taxila as in the Middle Ages they flocked to Paris; there all the arts and sciences could be studied under eminent professors, and the medical school especially was held in higher epute throughout the Oriental World. Pp. 441-442.
(b) Taxila, at the time of Alexander’s invasion, was known to all Asia as the leading seat of Hindu scholarship, renowned above all for its medical school, Story of Civilization-Will Durant. P. 557.
२. ‘The inhabitants were believed to attain the age of a hundred and thirty years, their longevity being the result of good health secured by temperance in diet’.
Early History of India—V. Smith P. 105.
३. (Strabo X V. C. 701)—Cambridge History of Ancient India Vol. I, P. 418; by E. J. Rapson.
४. Cambridge History of India Vol. I by E. J. Rapson P. 359; 381.