भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 64, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 64

५० काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

स्यात् । तेन शालिहोत्रस्योपदेश्यः पुत्रः सुश्रुतः, धन्वन्तरेरुपदेश्यो विश्वामित्रपुत्रः सुश्रुतश्च विभिन्नौ दृश्येते । दुर्लभगणकृते सिद्धोपदेशसङ्ग्रहनामकेऽश्ववैद्यकग्रन्थे—

शालिहोत्रेण गर्गेण सुश्रुतेन च भाषितम् । तत्त्वं यद्वाजिशास्त्रस्य तत्सर्वमिह संस्थितम् ।।

इति निर्देशेन सुश्रुतस्याप्यश्ववैद्यकोपदेष्टृत्वमायाति, परमाग्नेयपुराणोक्त्या धन्वन्तरिशिष्यस्य सुश्रुतस्याप्यश्ववैद्यकवित्वेनोपलम्भादेतन्निर्दिष्टः सुश्रुतः शालिहोत्रीयो धान्वन्तरो वेति स्पष्टं न परिच्छिद्यते । अस्तु वा दुर्लभगणोक्तः सुश्रुतः शालिहोत्रगर्गसाहचर्याच्छालिहोत्रीयः, तदुक्त्या एतदीयोऽपि कश्चनाश्वशास्त्रग्रन्थः स्यात्, परमस्य शालिहोत्रपुत्रस्य सुश्रुतस्य ग्रन्थो न कोऽपि साम्प्रतमुपलभ्यते, तदीयस्य ग्रन्थस्योल्लेखो वचनस्योद्धारोऽपि, किं बहुना नाममात्रमपि गणकृतग्रन्थं विना नान्यत्राश्वायुर्वेदीयग्रन्थेष्वप्युपलभ्यते । ततस्तस्य सुश्रुतस्य विषये सम्प्रति किमपि वक्तुं न शक्यते । धान्वन्तरसुश्रुतस्य तु ग्रन्थोपलम्भतः ग्रन्थान्तरनिर्देशतः, आचार्यान्तरोपग्रहणातः, शिलालेखाद्युल्लेखतश्च यथा प्रसिद्धिरस्ति, न तथा तस्य शालिहोत्रपुत्रस्य सुश्रुतस्य प्रसिद्धिर्दृश्यते । अतो यत्र सुश्रुतस्य कीर्तनं तत्र साधकबाधकान्तरोपलम्भमन्तरा शल्यप्रस्थानाचार्यो धान्वन्तरः सुश्रुत एव बुद्धावुपतिष्ठते ॥

अनयोः सुश्रुतयोरेक्यं मनसि कृत्वा शालिहोत्रलेखतः सुश्रुतस्य शालिहोत्रपुत्रत्वं नकुलकृतेऽश्वचिकित्सिते—

पायाद्वः स तुरङ्घोषतनयः श्रीशालिहोत्रो मुनिः ।

इति प्रारम्भपद्यलेखदर्शनेन तुरङ्गघोषशब्देनाश्वघोषमुपादाय शालिहोत्रस्याश्वघोषपुत्रत्वं च सङ्ग्रथ्य तुरङ्गघोषो हयघोषोऽश्वघोषश्चैकः, तत्पुत्रः शालिहोत्रः, तत्पुत्रः सुश्रुत इति कनिष्कसामयिकादश्वघोषादपि शालिहोत्रसुश्रुतयोरर्वाग्भावसाधकं व्यूहनकौशलमपि कस्यचिद्दृश्यते । परं नेपालदेशोपलब्धेऽश्वचिकित्सितस्य पुस्तकद्वये मङ्गलाचरणोक्तं तत्पद्यमेव नास्तीति मूले कुठारः, अस्तु वा तत्पद्यं, तथाऽपि शालिहोत्रग्रन्थेऽश्वचिकित्सितादौ च ब्रह्मणा इन्द्रेण वा सह सम्बद्धो मूलसंहिताकर्तृतया निर्दिष्टः शालिहोत्रः प्राचीन आचार्यः कीर्त्यते, शालिहोत्रग्रन्थे इक्ष्वाकुसगरयोः शालिहोत्रसकाशे प्रश्नस्य निर्देशोऽपि प्राक्तनत्वं दर्शयति । शालिहोत्रस्य न केवलं पञ्चतन्त्रादावेवोल्लेखोऽपि तु महाभारतेऽपि व^१नपर्वणि अश्वहृदयविदो नलस्योपाख्याने तदुल्लेखोऽस्ति । तत्राश्वकुलवित्वेन विशेषणात् प्रकरणवशाच्च तत्रोल्लिखितः शालिहोत्रः स एवायमाचार्य इति निश्चीयते । उपलब्धमाना शालिहोत्रसंहिता शालिहोत्रस्यैव हस्तलेखरूपा, किंवा संस्कारेण रूपान्तरमापन्ना, अथवा तदीयसम्प्रदायपरम्परागतोपदेशरूपेति त्वन्यदेतत्, परमश्वशास्त्रस्य परमाचार्यः शालिहोत्रः प्राचीनतर इत्यत्र न संशयः । ईदृशस्य प्राचीनस्य मुनेर्युधिष्ठिरभ्रात्रा नकुलेन स्वग्रन्थे मङ्गलाचरणे आचार्यभावेन संमाननमपि युज्यते, पूर्वापरग्रन्थसंगमनं च भवति । ईदृशं पुरासमयात् प्रसिद्धं प्राचीनमाचार्यं विहाय तुरङ्गघोषशब्देन अश्वघोषं कल्पयित्वा शालिहोत्रसुश्रुतयोस्तत्पुत्रपौत्रभावकल्पनमितिहासमेव विप्लावयति । अश्वशास्त्रस्य प्रथमप्रवर्तकः शालिहोत्रः, स चेदश्वघोषपुत्रस्तर्हि कनिष्कोत्तरमेवास्य प्रस्थानस्योदयेन भवितव्यं, तथाचाभ्युपगते कौटि^२लीयेऽर्थशास्त्रेऽपि अश्वानां शालानिर्माणमाहारकल्पना कुलजात्युल्लेखश्चैवमादयो बहवः शालिहोत्रीयविषयाः संक्षेपेण निर्दिष्टादृश्यन्ते, अश्वानां चिकित्सका अपि गृहीताः सन्ति, तेषां तत्र कुत उद्गमो वक्तव्यः । अशोकनृपतिना भारतीयभैषज्यमुपदाय स्वदेश इव देशान्तरेष्वपि शिलालेखेन प्रमाणीकृतमश्वादिपशुचिकित्सालयानामुद्घाटनं कं नाम विद्याधारमाश्रयेत । अश्वघोषो बुद्धसाम्प्रदायिकः प्रधानाचार्य इति स्पष्टमेव । शालिहोत्रलेखेऽश्वाभिषेकप्रकरणे श्रौतानामेव महर्षीणां नामानि, ब्रह्मघोषः, श्रौतं यज्ञविधानं, वाजिनां देवरूपत्वनिर्देशेऽपि श्रौतस्मार्तदेवानामेवोल्लेखश्च दृश्यमानः शालिहोत्राचार्यस्य वेदमार्गानुयायित्वमेव निश्चाययति । शालिहोत्रीये लेखे सुश्रुतसंहितायामपि बौद्धच्छायाया अनुपलब्भोऽनयोरश्वघोषस्य बुद्धाचार्यस्यापत्यत्वं व्याघट्टयति । अश्वघोषः साकेतवर्ती, शालिहोत्रः पश्चिमोत्तरप्रदेशीय इत्यनयोः प्रदेशविभेदोऽपि विसंवादमेव


१. शालिहोत्रोऽथ किन्तु स्याद्धयानां कुलतत्त्ववित् । (वनपर्वणि ७२ अध्याये)
२. कौटिलीये अश्वाध्यक्षप्रकरणे ३० अध्याये, साङ्ग्रामिकेऽपि ३७ पृष्ठे हस्त्यश्वयोः कुलजात्युल्लेखोऽस्ति ।