भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 103, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 103

प्राप्तस्यैव च तत्रस्थो जनोऽरोदीत्पुरो मम। अभ्येत्य मां समुद्भ्रान्तमुपवर्षोऽब्रवीत्ततः ॥९९॥ राजा हत निशम्य त्वामुपकोशाग्निसाम्बुषु। अकरोदथ मातुस्ते शुचा हृदयमस्फुटत् ॥१ ०॥ तच्छ्रुत्वाभिनवोद्भूतशोकवेगविव्हलः । सद्योऽहमपतं भूमौ वातरुग्ण इव द्रुमः ॥१०१॥ क्षणाच्च गतवानस्मि प्रलापार्ता रसज्ञताम्। प्रियबन्धुविनाशोत्थः शोकाग्निः कं न तापयेत् ॥१०२॥ जातःसारं जगत्त्यस्मिन्का नित्या ह्यनित्यता। तदेतामैश्वरीं मायां किं जानन्नपि मुह्यसि ॥१०३॥ इत्याविभिस्पागत्य वर्षेण वचनैरहम्। बोधितोऽथ यथातत्त्वं कथम्चिद्धृतिमप्तवान् ॥१०४॥ ततो विरक्तहृदयस्त्यक्त्वा सर्व निबन्धनम्। प्रस्थमैकसहायोऽहं तपोवनमक्षियिम् ॥१ ५॥ दिवसष्वप गच्छत्सु तत्तपोवनमकतः। अयोध्यात उपागच्छद् विप्र एको मयि स्थितः ॥१ ६॥ स मया योगनन्दस्य राज्यवार्तामपृच्छ्यत। प्रत्यभिज्ञाय मां सोऽथ सशोकमिदमब्रवीत् ॥१ ७॥ शृणु नन्दस्य यद्वृत्तं तत्सकाक्षाद् गते त्वयि। [L20: लब्धावकाशस्तत्राभूच्छकटालश्चिरेण सः ॥१०८॥ स चिन्तयन्बधोपायं योगनन्दस्य युक्तितः। क्षितिं खनन्तमद्राक्षीच्चाणक्याख्यं द्विजं पथि ॥१ ९॥ किं भुवः खनसीत्युक्ते तेन विप्रोऽथ सोऽब्रवीत्। दर्भमुन्मूलयाम्यत्र पाने येतेन मे क्षतः ॥११ ०॥ तच्छ्रुत्वा सहसा मन्त्री कोपनं क्रूरनिश्चयम्। तं विप्रं योगनन्दस्य बधोपायममन्यत ॥१११॥ नाम पृष्ट्वाऽब्रवीच्च व हे ब्रह्मन् दापयामि ते। अह त्रयोदशीनाद्य गृहे नन्दस्य भूपतेः ॥११२॥ दक्षिणातः सुवर्णस्य लक्षं तव भविष्यति। भोक्ष्यस धुरि चास्येपामर्हि तावद् गृहं मम ॥११३॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 103, कुल 876 में से · BharatKosha