भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 125, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 125

९० कथासरित्सागर सन्धिमात्रं न जानासि माशब्दोदकशब्दयोः । न च प्रकरणं वेत्सि मूर्खस्त्वं कथमीदृशः ॥११७॥ इत्युक्तः स तया राज्ञा शब्दशास्त्रविदा नृपः । परिवारे हसत्यन्तर्लज्जाक्रान्तो झगित्युभूत् ॥११८॥ परित्यक्तजलक्रीडो वीतदर्पश्च तत्क्षणम् । जातावमानो निर्लक्षः प्राविशन्निजमन्दिरम् ॥११९॥ ततश्चिन्तापरो मुक्ताहारादिपराङ्मुखः । चित्रस्थ इव पृष्टोऽपि नैव किञ्चिदभाषत ॥१२०॥ पाण्डित्यं शरणं वा मे मृत्युर्वेति विचिन्तयन् । शयनीयपरित्यक्तगात्रः सन्तापवानभूत् ॥१२१॥ अकस्मादथ राज्ञस्तां दृष्ट्वावस्थां तथाविधाम् । किमेतदिति सम्भ्रान्तः सर्व परिजनोऽभवत् ॥१२२॥ ततोऽहं शर्ववर्मा च ज्ञातवन्तौ क्रमेण ताम् । अत्रान्तरं स च प्रायः पर्यहीयत वासरः ॥१२३॥ अस्मिन्काले न च स्वस्थो राजेत्यालोच्य तत्क्षणम् । आवाभ्यां राजहंसाख्य आहूतो राजचेटकः ॥१२४॥ शरीरवार्त्ता भूपस्य स च पृष्टोऽब्रवीदिदम् । नेदृशो दुर्मनाः पूर्वं दृष्टो देवः कदाचन ॥१२५॥ विष्णुशक्तिदुहित्रा च मिथ्यापण्डितया तया । विलक्षीकृत इत्याहुर्देव्योऽन्याः कोपनिर्भरम् ॥१२६॥ एतत्तस्य मुखाच्छ्रुत्वा राजचेटस्य दुर्मनाः । शर्ववर्मद्वितीयोऽहं तदादित्यचिन्तयम् ॥१२७॥ व्याधिर्यदि भवेद्राज्ञः प्रविशेयुश्चिकित्सकाः । आधिर्वा यदि तत्रास्य कारणं नोपलक्ष्यते ॥१२८॥ नास्त्यथ हि विपक्षोऽस्य राज्ये निहतकण्टके । अनुरक्ताः प्रजाश्चात्र न हानिः परिदृश्यते ॥१२९॥ तत्कस्मादेष सन्तापीदृशः सहसा प्रभो । एवं विचिन्तिते धीमाञ्छर्ववर्मेदमब्रवीत् ॥१३०॥ अहं जानामि राज्ञोऽस्य मन्युर्मोकानुतापजः । मूर्खोऽहमिति पाण्डित्यं तदेवाय हि वाञ्छति ॥१३१॥ १ आधिः = मानसो रोगः ।