भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 145, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 145

१८ कथासरित्सागर तच्छ्रुत्वा शापभीतेन तेनादाय सुधर्मणा। स्वकन्यान्तःपुरे गुप्ते स्त्रीति संस्थापितो युवा ॥८०॥ ततः पञ्चशिखे याते स्वप्रियान्तःपुरे वसन्। स्त्रीवेषः स द्विजस्तस्या विश्रम्भास्पदतां ययौ ॥८१॥ एकदा चोत्सुका रात्रौ तेनात्मानं प्रकाश्य सा। गुप्तं गान्धर्वविधिना परिणीता नृपात्मजा ॥८२॥ तस्यां च धृतगर्भायां तं द्विजं स गणोत्तमः। स्मृतमात्रागतो रात्रौ ततोऽप्यपवरक्षितम् ॥८३॥ ततस्तस्य समुत्सार्य यूनः स्त्रीवेषमाशु तम्। प्रातः पञ्चशिखः सोऽभूत्पूर्ववद् ब्राह्मणाकृतिः ॥८४॥ तेनैव सह गत्वा च सुधर्मानुपमभ्यधात्। अद्य प्राप्तो मया राजन्पुत्रस्तद्देहि मे स्नुषाम् ॥८५॥ ततः स राजा तां बुद्ध्वा रात्रौ क्वापि पलायिताम्। तच्छापभयसम्भ्रान्तो मन्त्रिभ्यः एवमब्रवीत् ॥८६॥ न विप्रोऽयमयं कोऽपि देवो मद्वञ्चनागतः। एवम्पाया भवन्तीह वृत्तान्ताः सततं यतः ॥८७॥ शिबिकथा तथा च पूर्वं राजाऽभूत्तपस्वी करुणापरः। दाता धीरः शिबिर्नाम सर्वसत्त्वाभयप्रदः ॥८८॥ तं वञ्चयितुमिन्द्रोऽथ कृत्वा श्येनवपुः स्वयम्। मायाकपोतवपुषं धर्ममन्वपतद्द्रुतम् ॥८९॥ कपोतश्च भयाद् गत्वा शिबेरङ्कमशिश्रियत्। मनुष्यवाचा श्येनोऽथ स च राजानमब्रवीत् ॥९०॥ राजन्भक्ष्यमिदं मुञ्च कपोतं क्षुधितस्य मे। अन्यथा मां मृतं विद्धि कस्ते धर्मस्ततो भवेत् ॥९१॥ ततः शिबिरुवाचायमेष मे शरणागतः। अत्याज्यस्तद्वदाम्यन्यं मांसमेतत्समं तव ॥९२॥ श्येनो जगाद यद्येवमात्ममांसं प्रयच्छ मे। तथेति तद्हृष्टः संस्तं राजा प्रत्यपद्यत ॥९३॥ यथा यथा च मांसं स्वमुत्कृत्यारोपयन्नृपः। तथा तथा तुलायां स कपोतोऽप्यधिकोऽभवत्।