कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 147, कुल 876 में से
संदर्भ में पढ़ें११० कथासरित्सागर
स्वं शरीरं सकलं तुलां राजाध्यरोपयत् । 'साधु साधु' शमं स्वतस्त्रिव्या वागुदुभूवत ॥९५॥ इन्द्रयमौ ततस्त्यक्त्वा रूपं श्येनकपोतयो । तुष्टावतश्चतुरुद्वे तं राजानं चक्षतु शिविम् ॥९६॥ दत्त्वा चास्मै वरानन्यांस्तावन्तर्धानमीयतु । एवं मामपि कोप्येष देवो जिज्ञासुरागत ॥९७॥ इत्युक्त्वा सचिवांस्त्वैरं स सुशर्मा महीपति । समुवाच भयत्रस्तं विप्ररूपं गणोत्तमम् ॥९८॥ अभयं देहि साधो स्नुषा स हारिता निशि । माययेव गता क्वापि रहस्यमाजाप्यहर्निशम् ॥९९॥ कृच्छ्रात्स दयमेवाथ विप्ररूपो गणोऽब्रवीत् । तर्हि पुत्राय राजन् देहि स्वां समभामिति ॥१००॥ तच्छ्रुत्वा शापभीतेन राज्ञा तस्मै निजा सुता । सा दत्ता देवदत्ताय तत पञ्चशिखो ययौ ॥१०१॥ देवदत्तोऽपि तां भूय प्रकाश प्राप्य वल्लभाम् । अजृम्भेऽनन्यपुत्रस्य श्वशुरस्य विभूतिषु ॥१०२॥ कालेन तस्य पुत्रं च दौहित्रमभिषिच्य स । राज्ये महीधरं नाम सुशर्मा शिश्रिये वनम् ॥१०३॥ ततो दृष्ट्वा सुतैश्वर्यं कृतार्थ स तपोवनम् । राजपुत्र्या तया साकं देवदत्तोऽप्यशिश्रियत् ॥१०४॥ तत्राराध्य पुरं शम्भुं त्यक्त्वा मर्त्यकलेबरम् । तत्प्रसादेन तस्यैव गणभावमुपागत ॥१०५॥ प्रियादन्तोऽस्मिन्मातृपुष्पारसर्गा न ज्ञातवान्यत । अत स पुष्पदन्ताख्य सम्पन्नो गणसंसदि ॥१०६॥ तद्भार्या च प्रतीहारी देव्या जाता जयाभिधा । इत्थं स पुष्पदन्ताख्यो मदाख्यामधुना शृणु ॥१०७॥
माल्यवतः पूर्वकथा
य स गोविन्ददत्ताख्यो देवदत्तपिता द्विज । तस्यैव सोमदत्ताख्य पुत्रोऽहमभवं पुरा ॥१०८॥ तेनैव मन्युना गत्वा तपश्चाहं हिमाचले । अकार्ये बहुभिर्मास्यैः शङ्कर नन्दमन्ववा ॥१०९॥