भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 153, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 153

आक्षिप्तास्तन्निमित्तं च सूपकारा बभाषिरे। अस्माकमीदृशं मांसं ददते लुब्धका इति ॥२४॥ पृष्टाश्च लुब्धका ऊचुर्नातिदूरे गिरावितः। पठित्वा पत्रमेकैकं कोऽप्यग्नौ क्षिपति द्विजः ॥२५॥ तत्समेत्य निराहारा शृण्वन्ति प्राणिनोऽखिलाः। नान्यतो यान्ति तन्तेषां शुष्कं मांसमिदं क्षुधा ॥२६॥ इति व्याधवचः श्रुत्वा कृत्वा तानेव चाग्रतः। स्वयं स कौतुकाद्राजा गुणाढ्यस्यान्तिकं ययौ ॥२७॥ ददर्श स समाकीर्णं जटाभिरनवभासतः। प्रशान्तशेषदापाग्निधूमिकाभिरिवाभितः ॥२८॥ अथैनं प्रत्यभिज्ज्ञाय सवाष्पमृगमध्यगम्। नमस्कृत्य च पप्रच्छ तं वृत्तान्तं महीपतिः ॥२९॥ सोऽपि स्वं पुष्पदन्तस्य राज्ञे शापादिवेष्टितम्। ज्ञानी कथावतारं समाचख्यौ भूतभाषया ॥३०॥ ततो गणावतारं च मत्वा पादानतो नृपः॥ ययाचे तां कथां तस्माद्दिव्यां हरमुखोद्गताम् ॥३१॥ अथोवाच स तं भूपं गुणाढ्यः सातवाहनम्। राजन् षड्ग्रन्थलक्षानि मया दग्धानि षट् कथाः ॥३२॥ लक्षमेकमिदं त्वस्ति कथैका सैव गृह्यताम्। मच्छिष्यौ तव चात्रतौ व्याख्यातारौ भविष्यतः ॥३३॥ इत्युक्त्वा नृपमामन्त्र्य त्यक्त्वा योगेन तां तनुम्। गुणाढ्यः शापनिर्मुक्तः प्राप दिव्यं निजं पदम् ॥३४॥ अथ तां गुणाढ्यदत्तामादाय कथां बृहत्कथां नाम्ना। नृपतिरगाद्निजनगरं नरवाहनदत्तचरितमयीम् ॥३५॥ गुणाढ्यनन्दिदेवौ तत्र च तौ तत्कथाकवेः शिष्यौ। स्थिति-कनक-वस्त्र-वाहन-भवन-धनैः सर्वभजत् सः ॥३६॥ ताभ्यां सह च कथां तामाश्वास्य च सातवाहनस्तस्याः। तद्भाषायावतारं वक्तुं पत्र प्रथापीठम् ॥३७॥ सा च चित्ररसनिर्भरा कथा विस्मृतामरकथा कुतूहलात्। तद्विधाय नगरे निरन्तरां ख्यातिमत्र भुवनत्रये गता ॥३८॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्बके अष्टमस्तरङ्गः। समाप्तश्चायं कथामुखलम्बकः प्रथमः।