भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 155, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 155

कथामुख नाम द्वितीयो लम्भकः ५८ गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना त्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम्। प्रसह्य रसयन्ति ये विगतविघ्नलब्धोदयं धुरं दधति वैबुधीं भुवि भवप्रसादेन ते॥ प्रथमस्तरङ्गः सहस्रानीककथा गौरीनखपरिश्वङ्ग विमो स्वेदाम्बु पातु वः। नेत्रान्निमील्या कामेन बाणशास्त्रमिवाहितम्॥१॥ कैलासे धूर्जटेर्वक्त्रात्पुष्पदन्तं गणोत्तमम्। तस्माद् वररुचीभूतात् काणभूतिं च भूतले॥२॥ काणभूतेर्गुणाढ्यं च गुणाढ्यात्सातवाहनम्। यत्प्राप्तं शृणुतै तच्च विद्याधरकथाद्भुतम्॥३॥ अस्ति वत्स इति ख्यातो देशो दर्पोच्छ्रितश्रिये। स्वर्गस्य निर्मितो धात्रा प्रतिमल्ल इव क्षितौ॥४॥ कौशाम्बी नाम तत्रास्ति मध्यभागे महापुरी। लक्ष्मीविलासवसतिर्भूतलस्येव कर्णिका॥५॥ तस्यां राजा शतानीकः पाण्डवान्वयसम्भवः। जनमेजयपुत्रोऽभूत्पौत्रो राज्ञः परीक्षितः॥६॥ अभिमन्युप्रपौत्रश्च यस्याविपुष्टयोर्जुनः। त्रिपुरारि भुजस्तम्भ दृष्ट दोर्दण्डविक्रमः॥७॥ अभवद् भूरिभूतस्य राज्ञी विष्णुमती तथा। एका रत्नानि सुपुवे न तावदपरा सुतम्॥८॥