कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 157, कुल 876 में से
संदर्भ में पढ़ेंकथामुखं नाम द्वितीयो लम्बकः १५ गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना त्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम्। प्रसङ्ग रसयन्ति य विगतविघ्नलब्धर्द्धय धुरं दधति वैबुधीं भुवि भवप्रसादेन ये ॥
प्रथमस्तरङ्गः सहस्रानीककथा गौरीनवपरिष्वङ्गे विभो र्स्वेदाम्बु पातु वः। नेत्राग्निभीरुणा कामेन वारुणास्त्रमिवाहितम् ॥१॥ कैलास धूर्जटेर्वक्त्रात्पुष्पदन्त गणोत्तमम्। तस्माद् वररुचीभूतात् काणभूतिं च भूतले ॥२॥ काणभूतेर्गुणाढ्यं च गुणाढ्यात्सातवाहनम्। यत्प्राप्तं शृणुतेदं तच्च विद्याधरकथामृतम् ॥३॥ अस्ति वत्स इति ख्यातो देशो दर्पोपशाम्यये। स्वर्गस्य निर्मितो धात्रा प्रतिमल्ल इव क्षितौ ॥४॥ कौशाम्बी नाम तत्रास्ति मध्यभागे महापुरी। लक्ष्मीविलासकसतिर्भूतलस्येव कर्णिका ॥५॥ तस्यां राजा शतानीकः पाण्डवान्वयसम्भवः। जनमेजयपुत्रोऽभूत्पौत्रो राज्ञः परीक्षितः ॥६॥ अभिमन्युप्रपौत्रश्च यस्यादिपुरुषोऽर्जुनः। त्रिपुरारि भुजस्तम्भ धृष्ट दोर्दण्डविक्रमः ॥७॥ कलत्रं भूरभूत्तस्य राज्ञी विष्णुमती तथा। एका रहसि सुषुवे स तावदपरा सुतम् ॥८॥