कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 175, कुल 876 में से
संदर्भ में पढ़ें१६६ कथासरित्सागरे धीवतोऽपि स सत्रैव निपसाद तदन्तिके। अथाकस्मात्प्रववृते तया साध्व्या प्ररोदितम्॥३६॥ निपेतु स्तनयोस्तस्याः सम्प्राप्ता बाष्पबिन्दवः। श्रीदत्तस्य च तत्काल कारुण्य हृदय गतम्॥३७॥ तत स चैनां पप्रच्छ का त्व दुःख च किं तव। वद सुन्दरि शक्तोऽह तन्निवारयितु यत ॥३८॥ तत कथञ्चित्सावादीद् वय दैत्यपतेर्बले । पौत्र्यो बभूविम तासां ज्येष्ठा विद्युत्प्रभत्यहम्॥३९॥ स नः पितामहो नीतो विष्णुना दीर्घबन्धनम्। पिता च बाहुयुद्धेन हतस्तनैव शौरिणा॥४०॥ तं हृत्वा तन च निजात्पुरान्निर्वासिता वयम्। प्रवेशरोधकृत्तत्र सिंहश्च स्थापितोऽन्तर॥४१॥ आवृत तत्पद तन दुःखन हृदय च नः। स च यक्षः कुबेरस्य शापात् सिंहत्वमागत ॥४२॥ मर्त्येश्चाभिभवस्तस्य शापान्त कथित पुरा। पुरप्रवेशोपायार्थं विज्ञप्तो विष्णुरार्ययात्॥४३॥ अत स द्वयुरस्माकं केशरी जीयतां त्वया। तदर्थमेव चानीतो मया वीर! भवानिह॥४४॥ मृगाङ्ककास्य खड्ग च जितात्तस्मादवाप्स्यसि। पृथिवीं यत्प्रभावेण जित्वा राजा भविष्यसि॥४५॥ तच्छ्रुत्वा स सधैर्येण धीदत्तोऽसीत्तदहिन। अन्यद्युर्वर्त्समन्यास्ताः कृत्वाग्रे तत्पुर ययौ॥४६॥ जिगाय बाहुयुद्धेन तत्र च सिंहमुद्धतम्। सोऽपि शापविमुक्त सन्बभूव पुरुषाकृतिः॥४७॥ दत्त्वा चास्मै स खड्गं स्वं तुष्टः शापान्तकारिण। सहासुराङ्गनादुःखमारेणावक्षन ययौ॥४८॥ सोऽथ सानुजया सार्धं श्रीदत्तो दैत्यकन्यया। बहिर्गतमिवामन्द तद्विवेश पुरोत्तमम्॥४९॥ मङ्गुलीय द्विपद्मं च सास्मै दैत्यसुता ददौ। तत सोऽत्र स्थितस्तस्यां साभिलाषोऽभवद्युवा॥५०॥