भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 211, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 211

१७० कथासरित्सागर इत्युक्त्वा पञ्चतां प्राप स दैत्यः सोऽपि तत्सुताम्। तामङ्गारवतीं राजा गृहीत्वान्धमयीं ययौ ॥७३॥ परिणीतवतस्तस्य तत्र तां दैत्यकन्यकाम्। जातौ द्वौ तनयौ चण्डमहासेनस्य भूपतेः ॥७४॥ एको गोपालको नाम द्वितीयः पालकस्तथा। तयोरिन्द्रोत्सव आसी जातयोरकरोन्नृपः ॥७५॥ ततस्तं नृपतिं स्वप्ने तुष्टो वक्ति स्म वासवः। प्राप्स्यस्यन यसपुत्रीं मत्प्रसादात्सुतामिति ॥७६॥ ततः कालेन जातास्य राज्ञः कन्या तु तन्मया। अपूर्वा निर्मिता धात्रा चन्द्रस्येवापरा तनुः ॥७७॥ कामदेवावतारोऽस्याः पुत्रो विद्याधराधिपः। भविष्यतीति तत्कालमुदभूद् भारती दिवः ॥७८॥ दत्ता मे वासवेनैषा तुष्टेनेति स भूपतिः। नाम्ना वासवदत्तां तां तनयामकरोत्तदा ॥७९॥ सा च तस्य पितुर्गृहे प्रदेया सम्प्रति स्थिता। प्राङ् मन्थादूर्णवस्येव कमला कुक्षिकोटरे ॥८०॥ एवम्बिधप्रभावश्चण्डमहासेनभूपतिः स किल। देव ! न शक्यो जेतुं यथा तथा दुर्गवेश्मस्थः ॥८१॥ किं च स राजन्वाञ्छति दातुं तुभ्यं सदृशं तनयां ताम्। प्रार्थ्यते तु स राजा निजपक्ष महोदय मानी ॥८२॥ सा चावश्यं मन्ये वासवदत्ता त्वयैव परिणेया। स सपदि वासवदत्ताहृतहृदयो वत्सराजोऽभूत् ॥८३॥ इति महाकवि श्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्बके तृतीयस्तरङ्गः। चतुर्थस्तरङ्गः अत्रान्तरे स वत्सेशप्रवृत्तस्तदब्रवीत्। गत्वा प्रतिपदश्चण्डमहासेनाय भूपते ॥१॥