भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 221, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 221

१८ कथासरित्सागर तच्छ्रुत्वा तं च दृष्ट्वाग्रे मत्वा योगबलं तत् । युक्त्या वासवदत्तां तां वत्सराजोऽब्रवीदिदम् ॥६१॥ गत्वा सरस्वतीपूजामादायागच्छ दारिके । तच्छ्रुत्वा सा तथेत्युक्त्वा सवयस्या विनिर्ययौ ॥६२॥ यथोचितमुपेत्याथ ददौ वत्सेश्वराय सः । यौगन्धरायणस्तस्मै योगाक्षियङ्मभ्यञ्जनान् ॥६३॥ अस्याम् वासवदत्ताया वीणातन्त्रीनियोजितान् । वशीकरणयोगांश्च राज्ञस्तं स समर्पयत् ॥६४॥ व्यजिज्ञपच्च तं राजन्निहायातो वसन्तकः । द्वारि स्थितोऽप्यरूपेण तं कुरुष्वान्तिके द्विजम् ॥६५॥ यदा वासवदत्तेयं तव विश्रम्भमेष्यति । तदा वक्ष्यामि यदहं तत्कुर्यास्तिष्ठ साम्प्रतम् ॥६६॥ इत्युक्त्वा निर्ययौ शीघ्रं ततो यौगन्धरायणः । अगाद् वासवदत्ता च पूजामादाय तत्क्षणात् ॥६७॥ सोऽथ तामवदद्राजा बहिर्द्वारि द्विजः स्थितः । सरस्वत्यर्चने सोऽस्मिन् दक्षिणार्थे प्रवेश्यताम् ॥६८॥ सथेति द्वारवेद्यास्तं सत्र वासवदत्तया । विरूपामाकृतिं बिभ्रदानाय्यत वसन्तकः ॥६९॥ स चानीतस्तमालोक्य वत्सेशमरुवन्मुचा । ततश्चाप्रतिभेदाय स राजा निजगाद तम् ॥७० ॥ हे ब्रह्मन् ! रोगधैरूप्य सर्वमेतदहं तव । निवारयामि मा रोदीस्तिष्ठहेह ममान्तिके ॥७१॥ महाम्प्रसावो वेवति स धोवाच वसन्तकः । सोऽथ तं विकृतं दृष्ट्वा राजा स्मितमुखोऽभवत् ॥७२॥ तच्चालोक्याशयं बुद्ध्या तस्य सोऽपि वसन्तकः । हसति स्माधिकोद्भूतविरूपाननवैकृतः ॥७३॥ तं हसन्तं तथा दृष्ट्वा क्रीडनीयकसन्निभम् । तत्र वासवदत्तापि जहासा च तुतोष च ॥७४॥ यत सा नर्मणा बाला तं पप्रच्छ वसन्तकम् । किं विप्रान विजानासि भो ब्रह्मन् ! कथ्यतामिति ॥७५॥