कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 235, कुल 876 में से
संदर्भ में पढ़ें१९४ कथासरित्सागर ततः स देववेषस्तां लोहजङ्घोऽब्रवीत्प्रियाम्। पापा ते जननी स्वर्गं व्यक्तं नेतुं न युज्यते ॥१६६॥ एकादश्यां पुनःप्रातर्द्वारमुद्घाट्यते दिवि। तत्र च प्रविशन्त्यग्रे बहवः शाम्भवा गणाः ॥१६७॥ तन्मध्ये कृततद्वेषा स्वमातासौ प्रवेश्यते। तदस्याः पञ्चचूडं त्वं खुरक्लृप्तं शिरः कुरु ॥१६८॥ कण्ठ करङ्कमालाद्यं पार्श्वं चैकं सकज्जलम्। अन्यत्सिन्दूरलिप्तं च कुर्वस्या वीत-वाससः ॥१६९॥ एवं ह्येनां गणाकारां सुखं स्वर्गं नयाम्यहम्। इत्युक्त्वा स क्षण स्मित्वा लोहजङ्घस्ततोऽगमत् ॥१७०॥ प्रातश्च सा रूपणिका यथोक्तं तमकारयत्। वेषं मातुर्ग्यथापि तस्थौ स्वर्गैकसम्मुखी ॥१७१॥ आययौ च पुनस्तत्र लोहजङ्घो निशामुखे। सा च रूपणिका तस्मै मातरं तां समर्पयत् ॥१७२॥ ततः स विहगारूढस्तामादाय कुट्टनीम्। नग्नां विकृतवेषां च जवादुदपतन्नभः ॥१७३॥ गगनस्थश्च तत्रैव प्रांशु देवकुलाग्रतः। स ददर्श शिलास्तम्भचक्रेणोपरि लाञ्छितम् ॥१७४॥ तस्य पृष्ठे स चक्रैकसालम्बे तां न्यवेशयत्। शक्तिकाप्रतीकारपताकामिव कुट्टनीम् ॥१७५॥ इह तिष्ठ क्षण यावत्सांनिध्यानुग्रहं भुवि। गत्वा करोमीत्युक्त्वा च तस्या वृष्टिपथाच्च्युतः ॥१७६॥ ततस्तत्रैव देवाग्रे दृष्ट्वा जागरणागतान्। रात्रौ यात्रोत्सवे लोकान्गगनादेवमब्रवीत् ॥१७७॥ हे लोकाः ! इह युष्माकमुपर्यद्य पतिष्यति। सर्वसंहारिणी मारी तद्वेत शरणं हरिम् ॥१७८॥ श्रुत्वैतां गगनाद् वाणीं भीता सर्वेऽपि तत्र ते। माधुरां दवमाश्रित्य तस्थुः स्वस्त्ययनादृताः ॥१७९॥ सोऽपि व्योम्नोऽवतीर्यैव लोहजङ्घोऽवलोकयन्। तस्याबदृष्टस्तमध्यं देववेषं निधाय तम् ॥१८०॥