भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 239, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 239

इत्यन्यरूपस्य वसन्तकस्य मुखात्समाकर्ण्य कथामवापि। बद्धस्य वत्साधिपते समीपे तोषं परो वासवदत्तामान् ॥११९॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्बके चतुर्थस्तरङ्गः।

पञ्चमस्तरङ्गः वसन्तककथा : वासवदत्ताहरणम्

अथ वासवदत्ता सा शनैर्वत्सेश्वरं प्रति। गाढं बबन्ध सद्भावं पितृपक्षपराङ्मुखी ॥१॥ ततो वत्सेशानिकटं पुनर्यौगन्धरायणः। विषेणादर्शनं कृत्वा सर्वानन्याञ्जनान्प्रति ॥२॥ वसन्तकसमक्षं च विजनं तं व्यजिज्ञपत्। राजन्बद्धो भवांश्चण्डमहासेनेन मायया ॥३॥ सुतां च दत्त्वा सम्भाव्य त्वामय मोक्तुमिच्छति। तदस्यैनां स्वयं हृत्वा गच्छामस्तनयां वयम् ॥४॥ एवं ह्यस्य प्रतीकारो दृप्तस्य विहितो भवेत्। अपौरुषकृतं लोके नैव स्याल्लाघवं च नः ॥५॥ अस्ति चैतन दत्तास्यास्तनयायाः करेणुका। राज्ञा वासवदत्ताया नाम्ना भद्रवती नृप ॥६॥ सा चानुगन्तुं शक्या नान्येन दन्तिना। मुक्त्वा नडागिरिं सोऽपि तां दृष्ट्वैव न मुच्यते ॥७॥ तस्यादषाषाढको नाम हस्त्यारोहोऽत्र विद्यते। स च दत्त्वा धनं भूरि स्वीकृत्य स्थापितो मया ॥८॥ तदारुह्य करेणुं तां सह वासवदत्तया। सायुधमापयातव्यं नक्तं गुप्तमितस्त्वया ॥९॥ रुमण्वन् महामात्रो द्विग्देन्द्रितबलस्तदा। मथनं शोभतां नगो नतश्चन्तयत यथा ॥१०॥ पुलिन्दकस्य सख्युस्ते पार्श्वमद्य च याम्यहम्। मार्गरक्षामित्युक्त्वा ययौ यौगन्धरायणः ॥११॥ यत्गरात्रोर्त्तदं तागब वत्सस्य हृन्थे व्यधात्। अथ वासवदत्ता सा तस्यांनिशिमृगायतौ ॥१२॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 239, कुल 876 में से · BharatKosha