कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 261, कुल 876 में से
संदर्भ में पढ़ें२२ कथासरित्सागर
कथ शक्तिमती पुत्रि! ररक्ष पतिमुच्यताम्। इति पृष्टा तया श्वश्र्वा साऽथ देवस्मिताऽब्रवीत् ॥१६४॥ अस्मद्देशे पुरस्यान्तर्मणिभद्र इति श्रुतः। पूर्वैः कृतप्रतिष्ठोऽस्ति महायक्षः प्रभावतः ॥१६५॥ तस्योपयाचितान्येत्य तत्रत्या कुर्वते जनाः। तत्तद्वाञ्छितसिद्धि-हेतोस्तैस्तैरुपायनै ॥१६६॥ यो नरः प्राप्यते तत्र रात्रौ सह परस्त्रिया। स्थाप्यते सोऽस्य यक्षस्य गर्भागारे तया समम् ॥१६७॥ प्रातस्ततश्च सस्त्रीकः स नीत्वा राजसंसदि। प्रकटीकृत्य तद्वृत्तं निगृह्यत इति स्थितिः ॥१६८॥ एकदा तत्र नक्तं च सक्तः परजायया। वणिक्समुद्रदत्ताख्यः प्राप्तोऽभूत्पुररक्षिणा ॥१६९॥ नीत्वा च तेन क्षिप्तोऽभूत्सपरस्त्रीक एव सः। यक्षसद्मनि तस्मिन् दुर्वृत्तागेह वणिक ॥१७०॥ तत्क्षणं वणिजश्चास्य महाप्रज्ञा पतिव्रता। भार्या शक्तिमती नाम तं वृत्तान्तमबुध्यत ॥१७१॥ साऽथ धीरान्यरूपेण तद्यक्षायतनं निशि। पूजामादाय साश्वासा सखीजनयुता ययौ ॥१७२॥ तत्रैत्य दक्षिणाशोभावेत्तस्या एव पूजकः। ददौ प्रवेशमुद्घाट्य द्वारमुक्त्वा पुराधिपम् ॥१७३॥ सा च प्रविश्य स-स्त्रीके दुष्टे पत्त्यौ विलक्षिते। स्वं वेषं कारयित्वा तां निर्याह्यात्यक्त्वापरस्त्रियम् ॥१७४॥ सा च निर्गत्य रात्रौ स्त्री तद्वेषैव ततो ययौ। तस्थौ शक्तिमती तत्र तेन भर्त्रा समं तु सा ॥१७५॥ प्रातश्च राजाधिकृतैरेत्य यावन्निरूप्यते। तावत्स्वपत्न्याैव युतः शर्वे स ददृशे वणिक् ॥१७६॥ तद्बुद्ध्या यक्षमवमान्मृत्योरिव मुखादप। दण्डयित्वा पुराध्यक्षं वणिजं तममोचयत् ॥१७७॥ एवं शक्तिमती पूर्वं ररक्ष प्रज्ञया पतिम्। अहं तद्वेव भर्त्तारं गत्वा रक्षामि युक्तितः ॥१७८॥