भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 273, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 273

तच्छ्रुत्वा प्रणता सा च क्षमापे शपथोत्तरम् । पुनर्नेवं करिष्यामि तत्प्रसादाय मे पतिम् ॥५२॥ ततः स बालोऽवादीत्तां तदार्थातस्य मत्पितुः । व्यादर्शं दर्शयत्वेका स्वञ्चेटी वेद्म्यहं परम् ॥५३॥ तथेत्युक्त्वा तया चेटी नियुक्ता रुद्रशर्मणः । आगतस्य क्षणात्तस्य दद्यामास दर्पणम् ॥५४॥ तत्र तस्य तत्काल प्रतिबिम्ब स दश्यन् । सोऽय द्वितीयस्तातो मे तातेत्याह स्म बालकः ॥५५॥ तच्छ्रुत्वा विगतशङ्कस्तामकारणदूषिताम् । पत्नीं प्रति प्रसन्नोऽभूद्रुद्रशर्मा तदैव सः ॥५६॥ एवमुत्पादयेद्दोष बालोऽपिविकृतिं गतः । तदय रञ्जनीयो न सम्यक्परिकरोऽखिलः ॥५७॥ इत्युक्त्वा सरुमण्वन्तः सोऽथ यौगन्धरायणः । सर्वं सम्मानयामास वत्सराजोत्सवे जनम् ॥५८॥ तथा च राजलोक तौ रञ्जयामासतुर्यथा । मदेकप्रवणावेताविति सर्वोऽप्यमन्यत ॥५९॥ तौ चाप्यपूजयद्राजा सचिवो स्वकरापितैः । वस्त्राङ्गरागाभरणद्रव्यैरिष्टैश्च सबसत्सकौ ॥६०॥ कृतोद्वाहोत्सवः सोऽथ युक्तो वत्सेश्वरस्तया । मनोरथफलान्येव मेने वासवदत्तया ॥६१॥ चिरादुद्गमित स्नेहात्सोऽप्यभूत्सततं तयोः । निशान्ताखिलचेष्टच्चक्रवर्त्तीतितुष्टयो रसक्रमः ॥६२॥ यथा यथा च दम्पत्यो प्रौढि परिणयो ययौ । तयोस्तथा तथा प्रेम नवीभावमिवाययौ ॥६३॥ गोपालकोऽथ थीवाहकतुं सन्देशतः पितुः । प्रययौ शीघ्रमभ्येति वत्सराजेन याचितः ॥६४॥ सोऽपि वत्सेश्वरो जातु चपलः पूर्वसङ्गताम् । गुप्तां विरचितां नाम मेनेऽन्तःपुरचारिकाम् ॥६५॥ तद्गोत्रस्खलितो देवी पादलग्न प्रसादयन् । ममे सुभगसाम्राज्यमभिषिक्तस्तदश्रुभिः ॥६६॥