भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 275, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 275

२३४ कथासरित्सागर किं च बन्धुमतीं नाम राजपुत्रीं भुजार्जिताम्। गोपालकेन प्रहितां कन्यां देव्या उपायनम् ॥६७॥ तया मञ्जुलिकेत्येव नाम्नान्येनैव गोपिताम्। अपरामिव लावण्यमलङ्घरद्गतां श्रियम् ॥६८॥ वसन्तकसहायः संवृष्टदोषानलसागृहः। गान्धर्वविधिना गुप्तमुपयेमे स भूपतिः ॥६९॥ तच्च वासवदत्तास्य ददर्श निभृतस्थिता। प्रचुकोप च रूढया च सा निनाय वसन्तकम् ॥७०॥ तत प्रव्राजिकां तस्याः सखीं पितृकुलागताम्। स सांकृत्यायनीं१ नाम शरणं शिश्रिये नृपः ॥७१॥ सा तां प्रसाद्य महिषीं तया नैव कृताज्ञया। ददौ बन्धुमतीं राज्ञे पेशलं हि सतीमनः ॥७२॥ ततस्तं बन्धनाद्देवी सा मुमोच वसन्तकम्। स चागत्याग्रतो राज्ञीं हसन्निति जगाद ताम् ॥७३॥ बन्धुमत्यापराधः च किं मया देवि तः कृतम्। डुण्डुभेषु प्रहरथ क्रुद्धः यूयमहीन्प्रति ॥७४॥ एतद्द्वजमुपमानं मे व्याचक्ष्वेति कुतूहलात्। देव्या पृष्टस्तया सोऽथ पुनराह वसन्तकः ॥७५॥ पुरा कोऽपि रुरुर्नाम मुनिपुत्रो यदृच्छया। परिभ्रमन्ददर्शैकां कन्यामद्भूतदर्शनाम् ॥७६॥ विद्याधरात्समुत्पन्नां मेनकायां द्युयोषिति। स्थूलकेशेन मुनिना बर्धितामाश्रमे निजे ॥७७॥ सा च प्रमद्वरा नाम दृष्टा तस्य रुरोर्मनः। जहार सोऽथ गत्वा तां स्थूलकेशादयाचत ॥७८॥ स्थूलकेशोऽपि तां तस्मै प्रतिशुश्राव कन्यकाम्। आसन्नः च विवाहः साकस्माद्दष्टवामहिः ॥७९॥ तत्रो विषण्णहृदयः शुश्रावर्मा गिरं दिवि। एतां क्षीणामुप प्राहान् म्न्यायुषोऽद्धैः जीवय ॥८०॥ १ राजान्तःपुरे राज्ञीनां धर्मोपदेशाय प्रव्राजिकावचेनप्रौढाः, काषायावसनाः, विधवा स्त्रियः तिष्ठन्तिस्म्यति प्रायो दृश्यते।