कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 291, कुल 876 में से
संदर्भ में पढ़ें२५ कथासरित्सागर एतद्रुमण्वतः श्रुत्वा पुनर्यौगन्धरायणः। उवाच सह्यते क्लेशो राजभिः कार्यदर्शिभिः ॥८१॥ रावणोच्छित्तये देवीं स्मृत्वा युक्तिं वियोजिताम्। सीतादभ्या न किं रामो विषहे विरहव्यथाम् ॥८२॥ एतच्छ्रुत्वा च भूयोऽपि रुमण्वानभ्यभाषत। ते हि रामादयो देवास्तेषां सर्वसहं मनः ॥८३॥ असह्यं तु मनुष्याणां तथा च श्रूयतां कथा। अस्तीह बहुरत्नाढ्या मधुरेति महापुरी ॥८४॥ तस्यामभूद् वणिक्पुत्रः कोऽपि नाम्ना मङ्खलकः। तस्य चाभूत्प्रिया भार्या सर्वेशानुगमानसा ॥८५॥ तया सह वसन्तोऽयं कदाचित्कार्यगौरवात्। द्वीपान्तरं वणिक्पुत्रो गन्तुं व्यवसितोऽभवत् ॥८६॥ सद्भार्यापि च तेनैव सह गन्तुमियेप सा। स्त्रीणां भावानुरक्तं हि विरहासहनं मनः ॥८७॥ ततः स च वणिक्पुत्रः प्रतस्थे कृतमङ्गलः। न च तां सह जग्राह भार्यां कॢप्तप्रसाधनाम् ॥८८॥ साथ तं प्रस्थितं पश्चात्पश्यन्ती साश्रुलोचना। अतिष्ठत्प्राङ्गणद्वार कपाटान्तविसंज्ञिनी ॥८९॥ गते दृष्टिपथात्तस्मिन्सा वियोगासहा सतः। नियन्तुं नाशकन्मुग्धा प्राणांस्तस्या विनिर्ययुः ॥९०॥ तद्बुद्ध्वा च वणिक्पुत्रः प्रत्यावृत्य च तत्क्षणम्। ददर्श विह्वलां कान्तामेतामुत्क्रान्तजीविताम् ॥९१॥ सुन्दरापाण्डरच्छायां विलोलामलकालञ्छनाम्। भुवि चान्द्रमसीं लक्ष्मीं दिवः सुप्तच्युतामिव ॥९२॥ अङ्के कृत्वा च तां सद्यः क्रन्दतस्तस्य निर्ययुः। शोकाग्निज्वलिताद्देहादुत भीता इवासवः ॥९३॥ एवमन्योन्यविरहाद्दम्यती तौ विनेशतुः। अतोऽन्य राज्ञो देव्याश्च रक्ष्यान्योन्यवियोगिता ॥९४॥ इत्युक्त्वा विरते तस्मिन्बद्धाशङ्के रुमण्वति। जगाद धैर्यजलधिर्धीमान्यौगन्धरायणः ॥९५॥ मयैतन्निश्चितं सर्वं कार्याणि च महीभृताम्। भवन्त्यवधिमान्यत्र तथा चान्यां कथां शृणु ॥९६॥