कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 293, कुल 876 में से
संदर्भ में पढ़ें२५२ कथासरित्सागर राजा पुण्यसेनस्य कथा उज्जयिन्यामभूत्पूर्वं पुण्यसेनाभिधो नृपः। स जातु बलिनान्येन राज्ञा गत्वाभ्ययुज्यत॥१९७॥ अथ तमन्त्रिणो धीरास्तमरिं वीक्ष्य दुर्जयम्। मिथ्या 'राजा मृत' इति प्रवाद्य सर्वतो व्यधुः॥१९८॥ प्रच्छन्नं स्थापयामासुः पुण्यसेनं नृपं च ते। अन्यं कञ्चिदधाक्षुश्च' राजार्हविधिना शवम्॥१९९॥ अराजकानामधुना भव राजा त्वमेव नः। इति दूतमुखेनाथ तमरिं जगदुश्च ते॥२००॥ तथेत्युक्तवतस्तस्य रिपोस्तुष्टस्य ते सतः। मिलित्वा सैन्यसहिताः कटकं बिभिदुः क्रमात्॥१०१॥ भिन्ने च सैन्ये राजानं पुण्यसेनं प्रकाश्य तम्। ते सम्प्राप्तबलाः शत्रुं तं निजघ्नुः स्वमन्त्रिणः॥१०२॥ ईदृशि राजकार्याणि भवन्ति सचिव क्षमम्। देवीदाहप्रवावेन कार्यं धैर्येण कुर्महे॥१०३॥ इत्येतन्निश्चितमते भूत्वा यौगन्धरायणात्। रुमन्वत्तानब्रवीदेवं तर्हि यद्येष निश्चयः॥१०४॥ तद्गोपालकमानीय देव्या भ्रातरमादृतम्। सम्मन्त्र्य च समं तेन सम्यक्सर्वं विधीयताम्॥१०५॥ एवमस्त्विति वक्ति स्म ततो यौगन्धरायणः। तत्क्षणमात्रमन्वाद्यं चक्रे कर्त्तव्यनिश्चयम्॥१०६॥ अन्येद्युर्मन्त्रिमख्यो हि दूतं व्यसृजतां निजम्। गोपालकं समानेतुमुत्कण्ठाभ्यपदेशतः॥१०७॥ कार्यहेतोर्गतं पूर्वं तद्भूरावधनाच्च सः। अगाद् गोपालकस्तत्र स्वयं मूर्त्त इवोत्सवः॥१०८॥ आगतं तमहद्दृष्ट्वा स्वयं यौगन्धरायणः। निनाय सहमन्त्र्यक्तं गृहं गोपालकं निशि॥१०९॥ तत्र चास्मै सवुत्साहं शशंस स्वचिकीर्षितम्। यत्पूर्वं मन्त्रितं तेन समं सह रुमण्वता॥११०॥ १ अधाक्षुः = दाहं चक्रुः।