कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 351, कुल 876 में से
संदर्भ में पढ़ें११७ कथासरित्सागर
पूर्वजैरपि हि प्राचीप्रक्रमणं जित्वा दिशः। गङ्गोपकण्ठे वासश्च विहितो हस्तिनापुरे ॥६३॥ शतानीकस्तु कौशाम्बीं रम्यभावन शिश्रिये। साम्राज्ये पौरुषाधीने पश्यन्देशमकारणम् ॥६४॥ इत्युक्त्वा विरते तत्र तस्मिन्यौगन्धरायणे। राजा पुरुषकारैकबहुमानादभाषत ॥६५॥ सत्यं न देशनियमः साम्राज्यस्येह कारणम्। संपत्सु हि सुसत्त्वानामर्थहेतुः स्वपौरुषम् ॥६६॥ एकोऽप्याश्रयहीनोऽपि लक्ष्मीं प्राप्नोति सत्त्ववान्। श्रुता किं नात्र युष्माभिः पुरा सत्त्ववतः कथा ॥६७॥ एवमुक्त्वा स नरेशः सचिबानभ्यधित पृच्छतः। विचित्रां सन्निधौ देव्योरिमामकथयत्कथाम् ॥६८॥ अथ आदित्यसेनस्य तेजस्वत्याश्च कथा अस्ति भूतलविख्याता येयमुज्जयिनी पुरी। तस्यामादित्यसेनाख्यः पूर्वमासीन्महीपतिः ॥६९॥ आदित्यस्येव यस्याह्वं न ध्वास्तांस किञ्च क्वचित्। प्रतापमिलयस्यैकश्चक्रवर्तितया रयः ॥७०॥ भासत्युच्छ्रिते व्योम्नि यच्छत्रे तुहिनत्विषि। न्यवर्तन्तातपत्राणि राज्ञामपगतोष्मणाम् ॥७१॥ समस्तभूतकाभोगसम्भवानां बभूव सः। भाजनं सर्वरत्नानामम्बुराशिरिवाम्भसाम् ॥७२॥ स कदाचन कस्यापि हेतोर्यात्रागतो नृपः। ससैन्यो जाह्नवीकूलमासाद्यावस्थितोऽभवत् ॥७३॥ तत्र स गुणवर्माख्यः क्षोभ्याख्यस्तत्प्रदेशजः। अभ्यगाद्रूपमादाय कन्यारत्नमुपायनम् ॥७४॥ रत्नं त्रिभुवनेऽप्येषा कन्योत्पन्ना गृहे मम। नान्यत्र दातुं शक्या च देवो हि प्रमुरीदृशः ॥७५॥ इत्याख्या प्रतीहारमुखेनाद्य प्रविश्य सः। गुणवर्मा निजां तस्मै राज्ञे कन्यामवर्धयत् ॥७६॥ स तां तेजस्वतीं नाम दीप्तिद्योतित-दिङ्मुखाम्। अनङ्गमङ्गलावास-रत्न-दीपशिखामिव ॥७७॥ पश्यन्स्नेहमयो राजा क्लिष्टस्तत्कान्तितेजसा। कामाग्निनेव सन्तप्तः स्विन्नो विगलति स्म सः ॥७८॥