कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 353, कुल 876 में से
संदर्भ में पढ़ें३१२ कथासरित्सागर स्वीकुर्वतो च तत्पाल महाब्धोपशोभिताम्। चकार गुणवर्माणं परितुष्यात्मनः समम् ॥७९॥ अतस्तां परिणीय प्रियां तेजस्वतीं भूपः। श्लाघमानी स तया मायमुज्जयिनीं ययौ ॥८०॥ तत्र तन्मुखसक्तैकदृष्टी राजा ह्यभूतया। न्ददर्श राजकार्याणि न यथा सुमहाम्यपि ॥८१॥ तजस्वतीदृशलापकीलितेव त्रिल धृतिः। माघमप्रप्रजानन्दस्तस्यात्राङ्गुतमशक्यत ॥८२॥ धिरप्रविष्टो निर्गान्ध मोन्त'पुरान्नृपः। निरगादरिवर्गस्य हृदयातु रुजाम्बरः ॥८३॥ कालेन तस्य जज्ञे च राज्ञः सर्वानिनन्दिता। कन्या तेजस्वती देव्यां बुद्धौ च विजिगीषुता ॥८४॥ परमाद्भुतरूपा सा तृणीकृत्य जगत्त्रयम्। हृपं तस्याकरोत्कन्या प्रताप च जिगीषुता ॥८५॥ अथाभियोक्तुमुत्सिक्तः सामन्त कश्चिदेकदा। आदित्यसेनः प्रययावुज्जयिन्याः स भूपतिः ॥८६॥ तां च तेजस्वतीं राज्ञीं समास्कन्दकरेणुकाम्। सहप्रयायिनीं चक्रे सम्यक्स्याश्चिदेवताम् ॥८७॥ आरुरोह वराश्वं च दर्पोद्यमंनिश्ररम्। जङ्गमाद्रिनिभं शृङ्गं स श्रीवृक्षं समेखलम् ॥८८॥ आसुत्कोत्थितपादाभ्यामभ्यस्यन्तमिवान्बर । गति गरुत्मतो दृष्ट्वा वेगसद्ब्रह्मचारिणः ॥८९॥ जवस्य मम पर्याप्ता कि नु स्यादिति मेदिनीम्। कथयन्तमिवोन्नम्य कन्धरां धीरया दृशा ॥९०॥ किंचिद् गत्वा च सम्प्राप्य समां भूमि स भूपतिः। अश्वमुत्तजयामास तेजस्वत्याः प्रवक्षयन् ॥९१॥ सोऽश्वस्तत्पाणिघातेन यन्त्रेणेवैरित शरः। जगाम क्ष्वाप्यतिजवादलक्ष्यो लोकलोचनै ॥९२॥ १ श्रीवृक्ष-इत्यश्वजातिः। पर्वत पक्षे श्री वृक्षो विश्वद्रुमः, अन्य पक्षेण रोमावली।