कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 357, कुल 876 में से
संदर्भ में पढ़ें५१६ कथासरित्सागर निर्ययुस्ते च ससक्तबर्हा ल्लोरनिट्टराः । भयकाश्यपकोपानां गृहं हि च्छान्दसा द्विजाः ॥१०८॥ विदूषक-ब्राह्मणस्य कथा रटत्सु तेषु तत्रेको निर्जगाम ततो मठात् । विदूषकाख्यो गुणवाधुर्यं सत्त्ववतां द्विजः ॥१०९॥ यो युवा बाहुशाली च तपसाराध्य पावकम् । प्राप खड्गोत्तमं सम्माद्ययातमात्रोपगामिनम् ॥११० ॥ स दृष्ट्वा तं निशि प्राप्तं धीरो भव्याकृतिं नृपम् । प्रच्छन्नः कोऽपि देवोऽयमिति दध्यौ विदूषकः ॥१११॥ विधूय विप्रांश्चान्यांस्तान्स सर्वाननुचिताशयः । नृपं प्रवेशयामास मठान्तः प्रश्रयानतः ॥११२॥ विश्रान्तस्य च दासीभिर्धौताङ्घ्रेरजसः क्षणात् । आहारं कल्पयामास राज्ञस्तस्य निजोचितम् ॥११३॥ स चापनीतपर्याणं तदीयं तुरगोत्तमम् । यवसादिप्रदानेन चकार विगतश्रमम् ॥११४॥ रक्षाम्यहं शरीरं ते तत्सुखं स्वपिहि प्रभो ! इत्युवाच च तं श्रान्तमास्तीर्णशयनं नृपम् ॥११५॥ सुप्ते च तस्मिन्द्वारस्थो जागरामास स द्विजः । चिन्तितोपस्थिताग्नेयखड्गहस्तोऽखिलां निशाम् ॥११६॥ प्रातश्च तस्य नृपतेः प्रबुद्धस्यैव स स्वयम् । अमुक्त एव तुरगं सज्जीचक्रे विदूषकः ॥११७॥ राजापि स तमामन्त्र्य समारुह्य च वाजिनम् । विवेशोज्जयिनीं दूराद्दृष्टो हर्षाकुलैर्जनैः ॥११८॥ प्रविष्टमभिजग्मुस्तं सर्वाः प्रकृतयः क्षणात् । तदागमनानन्दरूसातङ्करुत्कारजा ॥११९॥ आययौ राजभवनं स राजा सचिवान्वितः । ययौ तेजस्वती देव्या हृदयान्य महाज्वरः ॥१२० ॥ वाताहुतोत्सवाक्षिप्तपताकांशु कपङ्क्तिभि । उत्सारिता इवाभून्नगर्यास्तत्क्षणं शुषः ॥१२१॥