भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 359, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 359

११८ कथासरित्सागर अकरोदा न्दिनान्तं च देवी तावन्महोत्सवम् । यावन्नगरलोकोऽभूत्सर्वः सिन्दूरपिञ्जरः ॥१२२॥ अन्येद्युः स तमादित्यसेनो राजा विद्रूपकम् । मठादानाययामाम तस्मात् सर्वैर्द्विजैः सह ॥१२३॥ प्रस्थाप्य रात्रिद्वैसान्ते ददौ तस्मै च सत्कृतम् । विद्रूपकाय ग्रामाणां सहस्रमुपकारिणे ॥१२४॥ पौरोहित्ये च चक्रे तं प्रदत्तच्छत्रवाहनम् । विप्रं श्शतशो नृपतिः कौतुकालोकितो जनैः ॥१२५॥ एवं सर्वैव सामन्ततुल्यः सोऽभूद् विद्रूपकः । माषा हि नाम जायन्त महत्भूयकृतिः कुतः ॥१२६॥ यांश्च प्राप नृपाद् ग्रामांस्तान्सर्वान् स महाशयः । तमठाद्यर्थिमिर्विप्रैः समं साधारणान् व्यधात् ॥१२७॥ तस्थौ च सेवमानस्तं राजानं च तदाश्रितः । मुञ्चानश्च सहान्यैस्तद्ब्राह्मणैर्ग्राससञ्चयम् ॥१२८॥ काले गच्छति चान्ये ते सर्वे प्राधान्यमिच्छवः । भवं तं गणयामासुर्द्विजा धनमदोद्धताः ॥१२९॥ विमिश्रैः सप्त१ सख्या तैरकस्थानाश्रयैरपि । संख्यातीतरबाध्यन्त ग्रामा दुष्टैर्ग्रहैरिव ॥१३०॥ उज्झद्वत्सलेषु तेष्वासीदुदासीनो विद्रूपकः । अल्पभावपु धीराणामवज्ञैव हि शोभते ॥१३१॥ एकदा कलहासक्तान् बुद्ध्वा तानभ्युपाययौ । कश्चित्पञ्चवक्रधरो नाम विप्रः प्रकृतिनिष्ठुरः ॥१३२॥ परार्थस्यायवावद्युः काणोऽप्यम्लानदर्सनः । कुब्जोऽपि वाचि सुस्पष्टो विप्रस्तानित्यभाषत ॥१३३॥ प्राप्ता भिक्षाचरर्भूत्वा भवद्भिः श्रीरियं शठाः । तन्नाशयथ किं ग्रामानन्योन्यमसहष्णवः ॥१३४॥ विद्रूपकस्य दापोऽयं यन यूयमुपेक्षिताः । तत्तत्सङ्घमचिरात्पुनर्भिक्षां भ्रमिष्यथ ॥१३५॥ १ सप्तभिर्युहैरेक स्थानं स्थितैः प्रलयो भवतीति सिद्धान्तविरोधीतम् ।