भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 385, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 385

४४ कथासरित्सागर साधु साधु सुसत्त्वोऽस्ति कोऽन्यस्त्वत्तो विदूषक । अनेन तव धैर्येण तुष्टोऽस्मि तदिदं शृणु ॥३१३॥ प्राप्तोऽसि मग्नविषयममं सम्प्रत्यतोऽपि च। कार्कोटकाख्यं नगरं दिने प्राप्स्यसि सप्तमे ॥३१४॥ ततो लब्धधृतिर्गत्वा शीघ्रं प्राप्स्यसि चेप्सितम्। अहं चाराधितः पूर्वं भवता हव्यकव्यभुक् ॥३१५॥ मद्दत्ताश्च तवेदानीं क्षुत्तृष्णा न च वर्त्स्यति। सद्गच्छ सिद्धये विस्रब्धमित्युक्त्वा विरराम वाक् ॥३१६॥ विदूषकश्च सन्तुष्ट्वा प्रणम्याग्निं प्रहर्षितः। प्रतस्थे सप्तमे चाह्नि प्राप कार्कोटकं पुरम् ॥३१७॥ तत्र च प्रविवेशाथ मठमार्यैरधिष्ठितम्। नानादेशोद्भवस्तस्तैर्द्विजरम्यातिथिप्रिय ॥३१८॥ श्रीमन्ता निर्मितं राज्ञा तत्रत्यानार्यवर्मणा। ऋद्धं समग्रसौवर्णगृहदण्डकुलान्वितम् ॥३१९॥ तत्र सर्वैः कृतातिथ्यमकस्तं ब्राह्मणोऽतिथिम्। स्नानेन भोजनैर्वस्त्रैर्नीत्वा गृहमूपाचरत् ॥३२०॥ सायं च तमठस्थः सन् पुरे शुश्राव तत्र सः। विदूषकः सपट्टहं घोष्यमाणमिदं वचः ॥३२१॥ 'ब्राह्मणः क्षत्रियो वापि परिणेतुं नृपात्मजाम्। प्रातरिच्छति यः सोऽद्य रात्रौ वसतु सद्गृहे ॥३२२॥ तच्छ्रुत्वा सनिमित्तं स तदाशङ्क्य च तत्क्षणम्। गन्तुं राजसुतावासमियाय प्रियसाहसः ॥३२३॥ ऊचुस्तं मठविप्रास्ते ब्रह्मन् मा साहसं कृथाः। सन्नं राजसुतासद्म तन्मृत्योर्विद्वन् मुखम् ॥३२४॥ यो हि तत्र प्रविशति क्षपायां न स जीवति। गता सुबहुवश्चैवमत्र साहसिकाः क्षयम् ॥३२५॥ इत्युक्तोऽपि स तैर्विप्रैरनङ्गीकृत तद्वचाः। विदूषको राजगृहं ययौ तत्किङ्करैः सह ॥३२६॥ तमार्यवर्मणा राज्ञा स्वयं दृष्ट्वाभिनन्दितः। विवेश तरसुतावासं नक्तमर्कं इवाभ्रकम् ॥३२७॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 385, कुल 876 में से · BharatKosha