भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 389, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 389

विदूषकोऽपि सानन्दमभिनन्दितविक्रमः। राजपुत्र्या तया सत्र हृष्टस्तामनयन्निशाम् ॥३४३॥ प्रातश्च ज्ञातवृत्तान्तस्तुष्टस्तस्मै ददौ नृपः। विभवैः सह शौर्यैकपताकामिव तां सुताम् ॥३४४॥ स तया सह तत्रासीद्रात्रीः काश्चिद् विदूषकः। पवात्पदमिवोच्छन्त्या लक्ष्म्येव गुणवत्तया ॥३४५॥ एकदा च निशि स्वरं ततः प्रायात्प्रियोत्सुकः। लब्धदिव्यरसास्वादः को हि रज्येदसान्तरे ॥३४६॥ नगराच्च विनिर्गत्य स च सस्मार राक्षसम्। स्मृतमात्रमागतं तं च जगाद रचितानतिम् ॥३४७॥ सिद्धक्षेत्रे प्रयातव्यमुदयाद्रौ मया सखे। मद्राविद्याधरीहेतोस्तत्त्वं सत्र मां नय ॥३४८॥ तथेत्युक्तवतस्तस्य स्कन्धमारुह्य रक्षसः। ययौ च स तया गत्या दुर्गां षष्टियोजनीम् ॥३४९॥ प्रातश्च तीर्त्वा शीतोदामलङ्घ्यां मानुषैर्नदीम्। उदयाद्रेश्र्च प्रापसन्निकर्षमयत्नतः ॥३५०॥ अय स पर्वत श्रीमानुदयाख्यः पुरस्तव। अत्रोपरि च नास्त्येव सिद्धिधाम्नि गतिर्मम ॥३५१॥ इत्युक्त्वा राक्षसे तस्मिन्प्राप्तानुज्ञे तिरोहिते। दीर्घिकां स ददर्शैकां रम्यां सत्र विदूषकः ॥३५२॥ वदन्त्या स्वागतमिव भ्रमद्भ्रमरगुञ्जितैः। तस्यास्तीरे न्यषीदच्च फुल्लपद्माननश्रियः ॥३५३॥ स्त्रीणामिवात्र चापल्पत्त्वचपंक्तिः सुविस्तरात्। अद्य प्रियागमे मार्गस्त्वेतेसि ब्रुवतीमिव ॥३५४॥ अरूढव्योऽय गिरिमैरयस्तद्विह्व वर क्षणम्। स्थितो भवामि पश्यामि कस्यय पदपद्धतिः ॥३५५॥ इति चिन्तयतस्तस्य तत्र तोयार्थमाययुः। गृहीतकाञ्चनघटा भव्या सुयहवः स्त्रियः ॥३५६॥ वारिपूरितकुम्भाश्च ताः स पप्रच्छ योषितः। कस्येदं नीयते तोयमिति प्रणयपेशलम् ॥३५७॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 389, कुल 876 में से · BharatKosha