कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 39, कुल 876 में से
संदर्भ में पढ़ें६ कथासरित्सागर ततस्तीव्रेण तपसा क्रीतोऽहं धीरया त्वया। तच्च तत्सङ्कथायैव मया सोढं तव प्रिये! ॥४२॥ इत्थं न पूजयाया त्वं किमन्यत्कथ्यते तव। इत्युक्त्वा विरते शम्भौ देवी कोपाकुलाऽब्रवीत् ॥४३॥ पार्वत्याः प्रणयकोपः धूर्तस्त्वं न कथां हृद्यां कथयस्यर्थितोऽपि सन्। गङ्गां बह्वमन्यन्त्यां विदितोऽसि न किं मम॥४४॥ सन्निरुध्या प्रतिपद्येस्या विहितानुनयो हरः। कथां कथयितुं दिव्यां ततः कोपं मुमोच सा॥४५॥ नेह कश्चित्प्रवेष्टव्यमित्युक्तेन तया स्वयम्। निरुद्धे नन्दिना द्वारे हरो वक्तुं प्रचक्रमे॥४६॥ पुनरपि कथोपक्रमः एकान्तसुखिनो देवा मनुष्या नित्यदुःखिताः। दिव्यमानुषचेष्टा तु परभागं न हारिणी॥४७॥ विद्याधराणां चरितमतस्ते वर्णयाम्यहम्। इति देव्या हरो यावद् वक्ति तावदुपागमत्॥४८॥ कथावसरे पुष्पदन्तप्रवेशः प्रसादयितुकः शम्भोः पुष्पदन्तो गणाग्रणीः। न्यषेधि च प्रवेशोऽस्य नन्दिना द्वारि तिष्ठता॥४९॥ निष्कारणं निषेधोऽद्य ममापीति कुतूहलात्। अलक्षितो योगशक्त्या प्राविशत् स तत्क्षणात्॥५०॥ प्रविष्टः श्रुतवान् सर्वं वर्ण्यमानं पिनाकिना। विद्याधराणां सप्तानामपूर्व चरिताद्भुतम्॥५१॥ श्रुत्वाथ गत्वा भार्यायै जयायै सोऽप्यवर्णयत्। विद्याधराणां सप्तानामपूर्व चरिताद्भुतम्॥५२॥ सापि तद्विस्मयाविष्टा गत्वा गिरिसुताग्रतः। जगौ जया प्रतीहारी स्त्रीषु वाक्संयमः कुतः॥५३॥ अतश्चुकोप गिरिजा नापूर्वं वर्णितं त्वया। जानाति हि जयाप्येतदिति शङ्करमभ्यधात्॥५४॥