कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 391, कुल 876 में से
संदर्भ में पढ़ें३५ कथासरित्सागर आस्ते विद्याधरी भद्रा भद्रानामात्र पर्वते। इदं स्नानोदकं तस्या इति ताश्च तमब्रुवन् ॥३५८॥ चित्रं धातेव धीराणामारब्धोद्दामकर्मणाम्। परितुष्यन् सामग्रीं घटयत्युपयोगिनीम् ॥३५९॥ यथैका साहसं स्त्री तासां मध्यादुवाच तम्। महाभाग ! मम स्कन्धे कुम्भ उत्क्षिप्यतामिति ॥३६०॥ तथेति च घटे तस्याः स्कन्धोत्क्षिप्ते स बुद्धिमान्। निदधे भद्रया पूर्वं दत्तं रत्नाङ्गुलीयकम् ॥३६१॥ उपाविशच्च तत्रैव स पुनर्वीथिकातले। ताश्च तज्जसमादाय ययुर्भद्रागृहं स्त्रियः ॥३६२॥ यत्र ताभिश्च भद्रायास्तावत्स्नानाम्बु दीयते। तावत्तस्यास्तदुत्सङ्गे निपपाताङ्गुलीयकम् ॥३६३॥ तद्दृष्ट्वा प्रत्यभिज्ञाय भद्रा पप्रच्छ ताः सखीः। दृष्टः किं कोऽपि युष्माभिरिहापूर्वो पुमानिति ॥३६४॥ दृष्ट एको ऽस्माभिर्मानुषो वापिकातटे। तेनोत्क्षिप्तो घटश्चायमिति प्रत्यब्रुवंश्च ताः ॥३६५॥ ततो भद्रा अब्रवीच्छीघ्रं प्रक्लृप्तस्नानमण्डनम्। इहानयत गत्वा तं स हि मर्त्यः समागतः ॥३६६॥ इत्युक्ते भद्रया गत्वा यथावस्तु निवेद्य च। स्नातश्च सद्यस्त्याभिस्तत्रानिन्ये विदूषकः ॥३६७॥ प्रातश्च स ददर्शात्र भद्रां मार्गोन्मुखीं चिरात्। निजसत्त्वतरोः साक्षात् पक्वामिव फलश्रियम् ॥३६८॥ सापि दृष्ट्वा तमुत्थाय हर्षबाष्पाम्बुसीकरैः। दत्तार्घेव बबन्धास्य कण्ठे भुजलतास्रजम् ॥३६९॥ परस्परालिङ्गितयोस्तयोः स्वेदच्छलादिव। अतिपीडनतः स्नेहः सस्यन्दे चिरसम्भृतः ॥३७०॥ अथोपविष्टयोरन्योन्यमक्ष्णोस्तृप्तौ विलोकने। उभौ शतगुणीभूतामिवोत्कण्ठामुदूहतुः ॥३७१॥ आगतोऽसि कथं भूमिमिमामिति च भद्रया। परिपृष्टः स तत्कालमुवाचेदं विदूषकः ॥३७२॥