भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 393, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 393

१५२ कथासरित्सागर समालम्ब्य भवरत्नहमारुह्य प्रागसदायान् । सुबहुनागतोऽस्मीह किमन्यद् वच्मि सुन्दरि ! ॥३७३॥ सञ्छ्रुत्वा तस्य दृष्ट्वा तामनपेक्षितजीविताम्। प्रीतिं काष्ठागतस्नेहा सा भद्रा समभाषत ॥३७४॥ आर्यपुत्र न मे कार्य सखीभिन च सिद्धिभिः। त्वं मे प्राणा गुणक्रीता दासी चाहं तव प्रभो ! ॥३७५॥ विदूषकस्ततोऽवादीत्तार्हगच्छ मया सह। मुक्त्वा दिव्यमिमं भोगं वस्तुमुज्जयिनीं प्रिये॥३७६॥ तथेति प्रतिपन्ने सा भद्रा सपदि तद्गृहम्। तरङ्गुल्पपरिभ्रष्टा विद्याश्च तृणवज्जहौ ॥३७७॥ ततस्तया समं सद्यं स विशद्याम तां निशाम्। क्लप्तोपचारस्तत्सख्या योगेश्वर्या विदूषक ॥३७८॥ प्रातश्च भद्रया साकमवतीर्योदयाद्रितः। सस्मार यमदंष्ट्रं तं राक्षसं स पुन कृती ॥३७९॥ स्मृतमात्रागतस्योक्त्वा गन्तव्याध्वक्रमं निजम्। सस्याऽऽरोह स स्कन्धे भद्रामारोप्य तां पुरः॥३८०॥ सापि सेहे तवत्युग्रराक्षसांसाधिरोहणम्। अनुराग-परायत्ता कुर्वते किं न योषितः ॥३८१॥ रक्षोऽधिरूढश्च तत स प्रतस्थे प्रियासखः। विदूषकः पुनः प्राप तच्च कार्कोटक पुरम् ॥३८२॥ रक्षोदर्शनसंत्रास तत्र व्यालोकितो जनः। दृष्ट्वायमर्त्तनृपतिं स्वां भार्यां मार्गति स्म च ॥३८३॥ दत्तां तेम गृहीत्वा च तत्सुतां तां भुजङ्गिताम्। तश्व राक्षसास्कन्धः स प्रतस्थे पुरातनः ॥३८४॥ गत्वाम्बुधेस्तटे प्राप पापं तं वणिजं च सः। यनास्य वारिधौ पूर्वं छिन्नाः क्षिप्तस्य रज्जवः ॥३८५॥ जहार तस्य च सुतां वणिजः स धनेः सह। प्रागम्बुधौ प्रवहणप्रमोचनपणार्जिताम् ॥३८६॥ धनापहारमेवास्य वधं मेने च पाप्मनः। कवर्त्तणां पुरे प्राप्ता प्रायण प्रार्थसञ्चयाः ॥३८७॥