भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 403, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 403

स्वभर्तुस्तच्च न मया दरिद्रस्यापि वर्णितम् । स हि द्यूतरतो द्वेष्यस्त्वं तु मे परमः प्रियः ॥३६॥ तत्तत्र गत्वा मद्भर्तुः सकाशात्तद्गृहं धनैः । क्रीत्वा तत्प्राप्य च स्वर्णमिहैत्य भज मां सुखम् ॥३७॥ एवमुक्तः कुटिलया स तयोपपतिर्वणिक् । सुतोष तस्य मन्वानो निधिं लब्ध्यमयत्नतः ॥३८॥ देवदासोऽपि कुभ्रूवाक्शल्यैस्तैर्हृदिहतः । कीलितामिव तत्काल धनाशां हृदये दधौ ॥३९॥ जगाम च ततः सद्यः पुरं पाटलिपुत्रकम् । प्राप्य च स्वगृहं लब्ध्वा निधानं स्वीचकार तत् ॥४०॥ अथाजगाम स वणिक्त्तद्भार्याच्छन्नकामुकः । तमत्र ददृशे वाणिज्यव्याजान्न निधिलोलुपः ॥४१॥ देवदाससकाशाच्च क्रीणाति स्म स तद्गृहम् । देवदासोऽपि मूल्येन भूयसा तस्य तद्ददौ ॥४२॥ ततो गृहस्थितिं कृत्वा युक्त्या श्वशुरवेश्मनः । स देवदासः शीघ्रं तामानाय स्वगेहिनीम् ॥४३॥ एवं कृते च तद्भार्याकामुकः स वणिक्शठः । असम्पन्निधिरभ्येत्य देवदासमुवाच तम् ॥४४॥ एतद्भवद्गृहं जीर्णं मह्यं न खलु रोचते । तद्देहि मे निजं मूल्यं स्वगृहं स्वीकुरुष्व च ॥४५॥ इति जल्पंश्च स वणिग् देवदासश्च विब्रुवन् । उभौ विवादमत्तौ तौ राजाग्रेमुपजग्मतुः ॥४६॥ तत्र स्वभार्यावृत्तान्तं यदास्यविषदुःसहम् । देवदासो नरेन्द्राय कृत्स्नमद्गिरति स्म तम् ॥४७॥ तत्तदाभाष्य तद्भार्यां तत्त्वं चान्विच्य भूपतिः । अदण्डयत् सर्वस्वं वणिजं परदारिकम् ॥४८॥ देवदासोऽपि तुष्टभूः त्यक्त्वा तां क्षिप्रमागिराम् । अन्यां च परिणीयाथ तस्थौ लब्धनिधिः सुखम् ॥४९॥


१ वरदारामङ्गदनमन्वन्थि खण्डम् ।