भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 417, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 417

३७६ कथासरित्सागर आद्यस्तयोरभून्मूर्खः स्वाकृतिर्दुर्विनीतकः। अपरश्चाभवद् विद्वान्विनीतोऽध्ययनप्रियः ॥९॥ कृतदारावुभौ तौ च पितर्यस्तङ्गते ततः। तदीयस्याग्रहारावेर्धमर्धं विभेजतुः ॥१०॥ सन्मध्यात्स कनीयांश्च राज्ञा सम्मानितोऽभवत्। ज्येष्ठस्तु सोमदत्तोऽभूच्चपलः क्षत्रकर्मकृत् ॥११॥ एकदा मद्यगोष्ठीके शूद्रैः सह विलोक्य तम्। सोमदत्तं पितृसुहृद्विजः कोऽप्यवमब्रवीत् ॥१२॥ अग्निदत्तसुतो भूत्वा शूद्रवन्मूर्ख ! चेष्टसे। निजमवानुजं दृष्ट्वा राजपूल्यं न लज्जसे ॥१३॥ तच्छ्रुत्वा कुपितः सोऽथ सोमदत्तः प्रधाव्य तम्। विप्रं पादप्रहारेण बधानोज्झितगौरवः ॥१४॥ तत्र विप्रः स कृत्वाऽन्यान् साक्षिणस्तत्क्षणं द्विजान्। गत्वा पादाहतिक्रुद्धो राजानं तं व्यजिज्ञपत् ॥१५॥ राजापि सोमदत्तस्य बन्धाय प्राहिणोद् भटान्। ते च निर्गत्य तन्मित्रैर्जघ्निरे शस्त्रपाणिभिः ॥१६॥ ततो भूयो बलं प्रेष्यावष्टम्भस्याय भूपतिः। क्रोधान्धः सोमदत्तस्य शूलारोपणमादिशत् ॥१७॥ मारोप्यमाणः शूलायामथाकस्मात्स च द्विजः। प्रक्षिप्त इव केनापि निपपात ततः क्षितौ ॥१८॥ रक्षन्ति भाविकल्याणं भाग्यान्यत्र यतोऽस्य ते। अन्वीयुबुर्वधकाः पुनरारोपगोद्यताः ॥१९॥ तत्क्षणं श्रुतवृत्तान्तस्तुष्टो राजा कनीयसा। भ्रात्रास्य कृतविज्ञप्तिर्भयादनममोचयत् ॥२०॥ ततो मरणनिस्तीर्णः सोमदत्तो गृहं सह। गन्तुं राजावमानेन देशास्तरमियेय सः ॥२१॥ यदा च नैच्छन्गमनं समतास्तस्य बान्धवाः। त्यक्तराजाग्रहारार्थं प्रतिपेदे तदा स्थितिम् ॥२२॥ ततो भृत्यन्नराभावात्खतु स पश्ये कृणिम्। तद्योग्यां च भुवं द्रष्टुं सुमेरुञ्चटवीं ययौ ॥२३॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 417, कुल 876 में से · BharatKosha