कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 431, कुल 876 में से
संदर्भ में पढ़ें११ कथासरित्सागर एव बाल्येऽपि जाताहं डाकिनीचक्रवर्तिनी। भक्षितास्तत्र चास्माभि समेत्य बहवो नराः ॥११४॥ कालरात्र्याः कथा अस्मिन्कथान्तरे चैतां महाराज ! कथां शृणु। विष्णुस्वामीत्यभूत्तस्याः कालरात्र्याः पतिर्द्विजः ॥११५॥ स च तस्मिन्नुपाध्यायो देशे नानादिगागतान्। शिष्यानध्यापयामास वेदविद्याविशारदः ॥११६॥ शिष्यमध्ये च तस्यैको नाम्ना सुन्दरको युवा। बभूव शिष्यः शीलेन विराजितवपुर्गुणैः ॥११७॥ तमुपाध्यायपत्नी सा कालरात्रिः कदाचन। वव्रे रहसि कामार्ता पत्यौ क्वापि बहिर्गते ॥११८॥ नूनं विस्पर्धिकं हासने क्रीडति स्मरः। यत्सानवेक्ष्य स्वं रूपं चक्रे सुन्दरकस्पृहाम् ॥११९॥ स तु सर्वात्मना नैच्छद्भर्त्स्यमानोऽपि विप्लवम्। स्त्रियो यत्ना विषहन्तां निष्कम्पं तु सतां मनः ॥१२० ॥ ततः साऽपसृते तस्मिन्कालरात्रिः क्रुधा तदा। स्वमङ्गं पाटयामास स्वयं दशननक्षतैः ॥१२१॥ विकीर्णवस्त्रकेशान्ता रुदती तावदास्त च। गृहं यावदुपाध्यायो विष्णुस्वामी विवेश सः ॥१२२॥ प्रविष्टं तमवादीच्च पश्य सुन्दरकेण मे। अवस्था विहिता स्वामिन् बलात्कारामिलाषिणा ॥१२३॥ तच्छ्रुत्वा स उपाध्यायः क्रुधा जज्वल तत्क्षणम्। प्रत्ययः स्त्रीषु मुष्णाति विमर्शं विदुषामपि ॥१२४॥ सायं च तं सुन्दरकं गृहप्राप्तं प्रभाष्य सः। सशिष्यो मुष्टिभिः पादैर्लगुडैश्चाप्यताडयत् ॥१२५॥ किं च प्रहारनिश्चेष्टं शिष्यानादिश्य तं बहिः। त्याजयामास रथ्यायां निरपेक्षतया निशि ॥१२६॥ ततः शनैः सुन्दरकः स निशानिलवीजितः। तमोभिभूतमात्मानं पश्यन्नेवमचिन्तयत् ॥१२७॥