भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 435, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 435

१६४ कथासरित्सागरे तत्रावतार्य हर्म्ये सा मन्त्रत शाकवाटकम्‌१ । गत्वा श्मशाने चिक्रीड डाकिनीचक्रमध्यगा ॥१४२॥ सत्वाण च शुषात्रास्तं शाकवाटेऽवतीय सः । तत्र सुन्दरकदचकं वृत्तिमूलाठमूलकं ॥१४३॥ कृतक्षुत्प्रतिघातेऽस्मिन्प्राग्वद् गोबाटमाथिते । प्रत्ययायौ कालरात्री रात्रिमध्ये निकेतनात् ॥१४४॥ सतोऽधिरूढगोबाटा पूर्ववन्मन्त्रसिद्धितः । आकाशेन सक्षिप्या सा निधि स्वगृहमाययौ ॥१४५॥ स्वापयित्वा यथास्थानं तच्च गोबाटवाहनम् । विसृज्यानुचरीस्ताश्च शय्यावश्म विवेश सा ॥१४६॥ सोऽपि सुन्दरको नीत्वा तां निशां बिघ्नविस्मितः । प्रभाते त्यक्तगोबाटो निकटं सुहृदां ययौ ॥१४७॥ तत्राख्यातस्ववृत्तान्तो विषद्यगमनोन्मुखः । तै समाश्वासितो मित्रैस्तन्मध्य स्थितिमग्रहीत् ॥१४८॥ उपाध्यायागृहं त्यक्त्वा मुञ्जानो सत्रसद्मनि । उवास तत्र विहरन् स्वच्छन्दं सखिभिः सह ॥१४९॥ एकदा निर्गता क्रेतुं गृहोपकरणानि सा । ददर्श स सुन्दरकं कालरात्रिः किलापणे ॥१५०॥ उपेत्य च जगादैनं पुमरेव स्मरातुरा । मज सुन्दरकाद्यापि मां त्वदायत्तजीविताम्‌ ॥१५१॥ एवमुक्तस्तया सोऽय साधु सुन्दरकोऽब्रवीत्‌ । मैव वादीनं धर्मोऽय माता मे गुरुपत्न्यसि ॥१५२॥ ततोऽब्रवीत्कालरात्रिधमं चब्रुवेरिस वेहि तत्‌ । प्राणामे प्राणदानाद्धि धर्मं कोऽम्यधिको भवत् ॥१५३॥ अथ सुन्दरकोऽब्रावीन्मातर्मैव वृथा हृदि । गुरुन्स्याभिगमनं कुत्र धर्मो भविष्यति ॥१५४॥ एव निराकृता तेन तजयन्ती च तं रुषा । पाटयित्वा स्वहस्तेन स्वोत्तरीयमगाद् गृहम् ॥१५५॥ पश्य सुन्दरकेणैव धाविन्जा पाटितं मम । इत्युवाच पतिं तत्र दर्शयित्वोत्तरीयक्म् ॥१५६॥ १ शाकवाटकः = शाकस्थितिस्यानम् ।