कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 439, कुल 876 में से
संदर्भ में पढ़ें१९८ कथासरित्सागर समित्रस्तेन गत्वा च प्रयागं प्राप्य च क्रमात्। शान्तं कमपि राजानं स्नान्तं तत्र ददर्श सः ॥१७२॥ संस्तभ्य चाभ्रं प्रासादं गङ्गायां संनिपत्य च। विस्मयोद्ग्रीवमीक्षितः सर्वैस्तं स राजानमभ्यगात् ॥१७३॥ कस्त्त्वं किं चावतीर्णोऽसि गगनादिति दास नः। राज्ञा प्रश्रेश पृष्टः सन्नेव सुन्दरकोऽब्रवीत् ॥१७४॥ अहं मुरजको नाम गणो देवस्य धूर्जटेः। प्राप्तो मानुषभोगार्थी त्वत्सकाशं तदाज्ञया ॥१७५॥ तच्छ्रुत्वा सत्यमाशङ्क्य सस्याढ्यं रत्नपूरितम्। सस्त्रीकं सोपकरणं ददौ तस्मै पुरं नृपः ॥१७६॥ प्रविश्याथ पुरं तस्मिन्नुत्पत्य दिवि सानुगः। चिरं सुन्दरकः स्वेच्छं निर्वेत्य व्यचरत् सः ॥१७७॥ शयानो हेमपर्यङ्के वीज्यमानश्च चामरैः। सेव्यमानो वरस्त्रीभिरिन्द्रं सुखमवाप सः ॥१७८॥ अथैकदा ददौ तस्मै मन्त्रं व्योमावरोहणम्। सिद्धः कोऽपि किलाकाशचारी सञ्जातसंस्तवः ॥१७९॥ प्राप्तावतारमन्त्रः स गत्वा सुन्दरकस्ततः। कान्यकुब्जं निजं देशं व्योममार्गादवातरत् ॥१८०॥ सपुरं पूर्णलक्ष्मीकमवतीर्णं नभस्तलात्। बुद्ध्वा तत्र स्वयं राजा कौतुकात्तमुपाययौ ॥१८१॥ परिज्ञातश्च पृष्टश्च राज्ञाग्रे सोऽथ कालवित्। कालरात्रिकृतं सर्वं स्ववृत्तान्तं न्यवेदयत् ॥१८२॥ ततश्चानाय्य पप्रच्छ कालरात्रिं महीपतिः। निर्भया साप्यविनयं स्वं सर्वं प्रत्यपद्यत ॥१८३॥ कुपिते च नृपे तस्याः कर्णौ च च्छेत्तुमुद्यते। सा गृहीतापि पश्यत्सु सर्वेष्वेव तिरोदधे ॥१८४॥ ततः स्वराष्ट्रे वासोऽस्यास्तत्र राज्ञा न्यषिध्यत। तत्पूजितः सुन्दरकः सिधिये च नभः पुनः ॥१८५॥ इत्युक्त्वा तम भर्तारमादित्यप्रभभूपतिम्। अभाषत पुनर्हृष्टा राज्ञी कुवलयावली ॥१८६॥ भवन्त्येवंविधा देव डाकिनीमन्त्रसिद्धयः।