कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 449, कुल 876 में से
संदर्भ में पढ़ेंनरवाहनदत्तजननं नाम चतुर्थो लम्बकः इह गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना- त्पुरा किल कथामृतं हरमुखात्सुधेशोद्गतम् । प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ॥ प्रथमस्तरङ्गः उदयनराज्ञः कथा (पूर्वानुवृत्ता) कर्णतालचलाघातसीमन्तितककुभाञ्चलः । पन्थानमिव सिद्धीनां दिक्षु जयति विघ्नजित् ॥१॥ ततो वत्सेश्वरो राजा स कौशाम्ब्यामवस्थितः । एकातपत्रां बुभुजे जितामुदयनो महीम् ॥२॥ विधाय सहमन्त्येव भारं यौगन्धरायणे । बिहारकरसश्चाभूद् वसन्तकसखः सुखी ॥३॥ स्वयं स वादयन् वीणां दभ्या वासवदत्तया । पद्मावत्या च सहितः सङ्गीतकमसचत ॥४॥ देवीकाकलिगीतस्य तद्वीणानिन्दस्य च । अभेदे वादनाङ्गुष्ठकम्पोऽभूद् भवसूचकः ॥५॥ हर्म्याग्रे निजकीर्त्येव ज्योत्स्नया धवले च सः । धाराविगलितं सीधु पपौ मदमिव द्विषाम् ॥६॥ आनिन्युः स्वर्णकलशैस्तस्य वाराङ्गना रहः । स्मरराज्याभिषेकाम्भ इव रागोञ्ज्वलं मधु ॥७॥ मारकतरसुरत्नस्वच्छमन्तस्फुरित मुखम् । उपनिन्यु र्व्योममध्य स स्वबिम्बिमिवासवम् ॥८॥ ईर्ष्याश्यामाभावमपि भङ्गुरभ्रूणि रागिणि । न मुग्धे वतयो राज्योस्तदृष्टिरतृप्तिमाययौ ॥९॥